श्रीविष्णो: षोडशनामस्तोत्रम्

विकिस्रोतः तः


श्रीविष्णो: षोडशनामस्तोत्रम्|

श्रीगणेशाय नमः||

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्|
शयने पद्मनाभं च विवाहे च प्रजापतिम्||१||

युध्दे चक्रधरं देवं प्रवासे च त्रिविक्रमम्|
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे||२||

दु:स्वप्ने स्मर गोविन्दं संकटे मधुसुदनम्|
कानने नारसिंह च पावके जलशायिनम्||३||

जलमध्ये वराहं च पर्वते रघुनन्दनम्|
गमने वामनं चैव सर्वकार्येषु माधवम्||४||

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्|
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते||५||

इति श्रीविष्णो: षोडशनामस्तोत्रं संपूर्णम्||