गोपालस्तुतिः

विकिस्रोतः तः
गोपालस्तुतिः
विष्णुस्तोत्राणि
[[लेखकः :|]]

श्री गणेशाय नमः ।
ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥ १॥

नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥ २॥

नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥ ३॥

बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमः ॥ ४॥

कंसवशविनाशाय केशिचाणूरघातिने ।
कालिन्दीकूललीलाय लोलकुण्डलधारिणे ॥ ५॥

वृषभध्वजवन्द्याय पार्थसारथये नमः ।
वेणुवादनशीलाय गोपालायाहिमर्दिने ॥ ६॥

बल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥ ७॥

नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥ ९॥

प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥

श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥

केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥

॥ इत्याथर्वणे गोपालतापिन्युपनिषदन्तर्गता गोपालस्तुति समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=गोपालस्तुतिः&oldid=92893" इत्यस्माद् प्रतिप्राप्तम्