अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ।। ०४.५.०१ ।।

 तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ।। ०४.५.०२ ।।

 ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ।। ०४.५.०३ ।।

 अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ।। ०४.५.०४ ।।

 प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ।। ०४.५.०५ ।।

 संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ।। ०४.५.०६ ।।

 उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ।। ०४.५.०७ ।।

 कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ।। ०४.५.०८ ।।

 अनुप्रविष्टा वाएकत्र ग्राहयेयुः ।। ०४.५.०९ ।।

 कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१० ।।

 गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ।। ०४.५.११ ।।

 पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ।। ०४.५.१२ ।।

 गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ।। ०४.५.१३ ।।

 यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ।। ०४.५.१४ ।।

 पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ।। ०४.५.१५ ।।

 अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ।। ०४.५.१६ ।।

 गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१७ ।।

 पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ।। ०४.५.१८अ ब ।।

 सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ।। ०४.५.१८च्द् ।।