पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/25

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
कुमारसम्भवे


आरोपितं यद् गिरिशेन पश्चा-
दनन्यनारीकमनीयमङ्कम् ॥ ३७ ॥
तस्याः प्रविष्टा नतनाभिरन्ध्रं
रराज (६)[१]तन्वी नवलोम(१)[२]राजिः ।

ज्ञानुनया मन्त्रणे ननु" इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । "त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः" इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । "गिरौ डश्छन्दसि" इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्ति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । "रुहः पोऽन्यतरस्याम्" इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥ ३७ ॥
     तस्य इति ।। नीवीं वस्त्रग्रन्थिम् । "स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च" इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दो-


  1. नाली
  2. राजौ।