शिशुपालवधम्/एकोनविंशः सर्गः

विकिस्रोतः तः
← अष्ठादशः सर्गः शिशुपालवधम्
एकोनविंशः सर्गः
माघः
विंशः सर्गः →

अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ।। १९.१ ।।

आपतन्तममुन्दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ।। १९.२ ।।

जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुथ् ।
भाभोऽभीभाभिभूभारारारिररिरीररः ।। १९.३ ।।

भवन्भवाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ।। १९.४ ।।

रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितमा महेष्वा स विचक्षणे ।। १९.५ ।।

दिशमर्कमिवावाचीं मूर्च्छागतमपाहरथ् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ।। १९.६ ।।

कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जितां ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जितां ।। १९.७ ।।

उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदं ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ।। १९.८ ।।

पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदायुधः ।। १९.९ ।।

समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ।। १९.१० ।।

दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ।। १९.११ ।।

नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।
बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखां ।। १९.१२ ।।

प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ।। १९.१३ ।।

कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनं ।। १९.१४ ।।

याबभार कृतानेकमाया सेना ससारतां ।
धनुः स कर्षन्रहितमायासेनाससार तां ।। १९.१५ ।।

ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यतां ।। १९.१६ ।।

दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ।। १९.१७ ।।

निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ।। १९.१८ ।।

तस्यावदानैः समरे सहसा र्ॐअहर्षिभिः ।
सुरैरशंसि व्य्ॐअस्थैः सह सारो महर्षिभिः ।। १९.१९ ।।

सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ।। १९.२० ।।

सोढुं तस्य द्विषो नालमवयोधरवा रणं ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणं ।। १९.२१ ।।

केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ।। १९.२२ ।।

सादरं युद्धमानापि तेनान्यनरसादरं ।
सा दरं पृतना निन्ये हीयमाना रसादरं ।। १९.२३ ।।

इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजं ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ।। १९.२४ ।।

अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ।। १९.२५ ।।

ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ।। १९.२६ ।।

सकारनानारकास कायसाददसायका ।
रसाहवावाहसार नादवाददवादना ।। १९.२७ ।।

लोलासिकालियकुला यमस्यैव स्वसा स्वयं ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायतां ।। १९.२८ ।।

सासेनागमनारम्भे रसेनासीदनारता ।
तारनादजनामत्त धीरनागमनामया ।। १९.२९ ।।

धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृतां ।
शौर्यनुरागनिकषः सा हि वेलानुजीविनां ।। १९.३० ।।

दिवमिन्युधा गन्तुं क्ॐअलामलसम्पदं ।
दधौ दधानोऽसिलतां कोऽमलामलसम्पदं ।। १९.३१ ।।

कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरं ।। १९.३२ ।।

वाहनाजनि मानासे साराजावनमा ततः.
मत्तसारगराजेभे भारीहावज्जनध्वनि ।। १९.३३ ।।

निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ।। १९.३४ ।।

अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ।। १९.३५ ।।

करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ।। १९.३६ ।।

धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।
सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ।। १९.३७ ।।

न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ।। १९.३८ ।।

बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ।। १९.३९ ।।

नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिराप तान्वियाततयान्विता ।। १९.४० ।।

विषमं सर्वतोभद्रचक्रग्ॐऊत्रिकादिभिः ।
श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलं ।। १९.४१ ।।

संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ।। १९.४२ ।।

विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलं ।। १९.४३ ।।

वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ।। १९.४४ ।।

अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ।। १९.४५ ।।

प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।
ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ।। १९.४६ ।।

पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ।। १९.४७ ।।

केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ।। १९.४८ ।।

विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचिथ् ।। १९.४९ ।।

अन्येन विदधेऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ।। १९.५० ।।

सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।
तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियां ।। १९.५१ ।।

शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशेऽन्यो रावणवदलङ्करणभूषितः ।। १९.५२ ।।

द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ।। १९.५३ ।।

भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ।। १९.५४ ।।

दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ।। १९.५५ ।।

रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ।। १९.५६ ।।

यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितं ।। १९.५७ ।।

अयशोभिदुरालोके कोपधाम-रणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ।। १९.५८ ।।

स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ।। १९.५९ ।।

अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ।। १९.६० ।।

स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ।। १९.६१ ।।

वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ।। १९.६२ ।।

पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ।। १९.६३ ।।

रक्तश्रुतिं जपासूनसमरागामिषुव्यधाथ् ।
कश्चित्पुरः सपत्नेषु समरागमिषुव्यधाथ् ।। १९.६४ ।।

रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवथ् ।। १९.६५ ।।

भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ।। १९.६६ ।।

निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ।। १९.६७ ।।

निपीडनादिव मिथो दानतोयनारतं ।
वपुषामदयापातादिभानामभितोऽगलथ् ।। १९.६८ ।।

रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयथ् ।। १९.६९ ।।

शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ।। १९.७० ।।

अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ।। १९.७१ ।।

अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।
कनत्सकामसेनाके मन्दकामकमस्यति ।। १९.७२ ।।

दधतोऽपि रणे भीममभीक्ष्णं भावमासुरं ।
हताः परैरभिमुखाः सुरभूयमुपाययुः ।। १९.७३ ।।

येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ।। १९.७४ ।।

निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलं ।
पाणिनीयमिवावलोकि धीरैस्तत्समराजिरं ।। १९.७५ ।।

अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ।। १९.७६ ।।

विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ।। १९.७७ ।।

असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनं ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनं ।। १९.७८ ।।

चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदं ।
पयोदजालमिव तद्वीराशंसनमाबभौ ।। १९.७९ ।।

बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ।। १९.८० ।।

कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनां ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ।। १९.८१ ।।

युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ।। १९.८२ ।।

अथ वक्ष्ॐअणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ।। १९.८३ ।।

नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ।। १९.८४ ।।

अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ।। १९.८५ ।।

विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ।। १९.८६ ।।

उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ।। १९.८७ ।।

तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितं ।। १९.८८ ।।

विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजं ।। १९.८९ ।।

विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ।। १९.९० ।।

नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमथ् ।। १९.९१ ।।

तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ।। १९.९२ ।।

पश्चात्कृतानामप्यस्य नराणामिव पत्रिणां ।
योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ।। १९.९३ ।।

प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ।। १९.९४ ।।

दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ।। १९.९५ ।।

शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ।। १९.९६ ।।

न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ।। १९.९७ ।।

लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ।। १९.९८ ।।

अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ।। १९.९९ ।।

वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ।। १९.१०० ।।

मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।
तदीयं धनुरन्यस्य न हि सेहे सजीवतां ।। १९.१०१ ।।

राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ।। १९.१०२ ।।

उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ।। १९.१०३ ।।

क्रूरारिकारि कीरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ।। १९.१०४ ।।

विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसंघातमकरोद्भूमिवर्धनं ।। १९.१०५ ।।

दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्राददरद्रोदोरुद्दारुरादरी ।। १९.१०६ ।।

एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ।। १९.१०७ ।।

शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ।। १९.१०८ ।।

व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ।। १९.१०९ ।।
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटं ।
अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ।। १९.११० ।।

आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनं ।। १९.१११ ।।

भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ।। १९.११२ ।।

मांसव्यधोचितमुखैः शून्यतां दधदक्रियं ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ।। १९.११३ ।।

दाददो दद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ।। १९.११४ ।।

प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ।। १९.११५ ।।

सदामदबलप्रायः समुद्धृरसो बभौ ।
प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ।। १९.११६ ।।

द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ।। १९.११७ ।।

सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तं ।। १९.११८ ।।

इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याध्ॐउख्यं प्रविशन्भूमिमाशु ।
शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपं ।। १९.११९ ।।

सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ।। १९.१२० ।।