वायुपुराणम्/पूर्वार्धम्/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ वायुपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
अतः परं प्रवक्ष्यामि यस्मिन् यस्मिन् शिलोच्चये।
ये सन्निविष्टा देवानां विविधानां गृहोत्तमाः ।। ३९.१ ।।
तत्र योऽसौ महाशैलः शीतान्तो नैक विस्तरः।
नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ।। ३९.२ ।।
नितम्बैः पुष्पसालम्बैर्नैकसत्त्वगुणालयः।
महार्हमणिचित्राभिर्हेमवंशैरलंकृतः ।। ३९.३ ।।
नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः।
तटैः कुसुमसङ्कीर्णैर्मत्तभ्रमरनादितैः ।। ३९.४ ।।
लतालम्बैश्चित्रवद्भिश्चित्रैर्धातुशतार्चितैः।
सानुभी रत्नचित्रैश्च पुष्पाढ्यैश्च विभूषितः ।। ३९.५ ।।
विमलस्वादुपानीयैर्नैकप्रस्रवमैर्युतः।
निकुञ्जैः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ।। ३९.६ ।।
पुष्मौडुपवहाभिश्च स्रवन्तीभिरलंकृतः।
किन्नराचरिताभिश्च दरीभिः सर्वतस्ततः ।। ३९.७ ।।
यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः।
शोभितश्च सुखासेव्यैश्चित्रैर्गहनसङ्कटैः ।। ३९.८ ।।
नानासत्वगणाकीर्णैः सुपानीयैः सुखाश्रयैः।
नानापुष्पफलोपेतैः पादपैः समलंकृतः ।। ३९.९ .
तस्मिन् गुहाश्रयाकीर्णे अनेकोदरकन्दरे।
क्रीडावनं महेन्द्रस्य सर्वकामगुणैर्युतम् ।। ३९.१० ।।
तत्र तद्देवराजस्य पारिजातवनं महत्।
प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ।। ३९.११ ।।
तरुणादित्यसंकाशै र्महागन्धैर्मनोहरैः।
पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ।। ३९.१२ ।।
समग्रं योजनशतं तं गन्धमनिलो ववौ।
पारिजातकपुष्माणां माहेन्द्र वननिर्गतः ।। ३९.१३ ।।
वैढूर्यनीलैः कमलैः सौवर्णैर्वज्रकेसरैः।
सर्वगन्धबलोपेतैर्मत्तषट्पदनादितैः ।। ३९.१४ ।।
व्याकोशौर्विकचैश्चापि शतपत्रैर्मनोहरैः।
सपङ्कजैर्महा पत्रैर्वाप्यस्तत्र विभूषिताः ।। ३९.१५ ।।
विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः।
परिप्सन्देक्षणा नित्यं मीनयूथाः सहस्रशः ।। ३९.१६ ।।
कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः।
चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ।। ३९.१७ ।।
नानावर्णैश्च शखुनैर्नानारत्नतनूरुहैः।
सुवर्णपुष्पैश्चानेकैर्मणितुण्डैर्द्विजातिभिः ।। ३९.१८ ।।
वल्गुस्वरैः सदोन्मत्तैः सम्पतद्भिः समन्ततः।
शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ।। ३९.१९ ।।
मत्तभ्रमरसन्नादैर्विहङ्गानाञ्च कूजितैः।
नित्यमा नन्दितवनं तस्मात् क्रीडावनं महत् ।। ३९.२० ।।
सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः।
मणिश्रृङ्गकलापन्नैः पतद्भिश्च समन्ततः ।। ३९.२१ ।।
शाखामृगैश्च चित्राङ्गैर्नानारत्नतनूरुहैः।
नानावर्णप्रकारैश्च सत्वैरन्यैः समाकुलम् ।। ३९.२२ ।।
मुञ्चन्ति पुष्पवर्षञ्च तत्र बाललता द्रुमाः।
पारिजातकपुष्पाणां मन्दमारुत कम्पिताः ।। ३९.२३ ।।
शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः।
विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः।
न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ।। ३९.२४ ।।
नित्यमुन्मादजननो मधुमाधवसम्भवः।
वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः।
नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ।। ३९.२५ ।।
तस्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः।
यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ।। ३९.२६ ।।
विद्याधराश्च सिद्धाश्च किन्नराश्च मुदा युताः।
अथाप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ।। ३९.२७ ।।
तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम्।
कुमुञ्चं शैलराजानं नैकनिर्झरकन्दरम् ।। ३९.२८ ।।
तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः।
अष्टौ पुर्यो ह्युदीर्णाश्च दानवानां महात्मनाम् ।। ३९.२९ ।।
वज्रके पर्वते चापि अनेकशिखरोदरैः।
उदीर्णा राक्षसावासा नरनारीसमाकुलाः ।। ३९.३० ।।
नीलका नाम ते घोरा राक्षसाः कामरूपिणः।
तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ।। ३९.३१ ।।
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च।
हयाननानां विख्याताः किन्नराणां महात्मनाम् ।। ३९.३२ ।।
देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा।
तत्र किन्नरराजानो दशपञ्च च गर्विताः ।। ३९.३३ ।।
सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः।
बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ।। ३९.३४ ।।
अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः।
महोरगशतास्तत्र सुवर्णवशवर्तिनः ।। ३९.३५ ।।
सुनागेऽपि महाशैले दैत्यावासा- सहस्रशः।
हर्म्यप्रासाद कलिलाः प्रांशुप्राकारतोरणाः ।। ३९.३६ ।।
वेणुमन्ते महाशैले विद्याधरपुरत्रयम्।
त्रिंशदद्योजनविस्तीर्णं पञ्चाशद्योजनायतम् ।। ३९.३७ ।।
उलूको रोमशश्चैव महानेत्रश्च वीर्यवान्।
विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ।। ३९.३८ ।।
वैकङ्के शैलशिखरे ह्यन्तःकन्दरनिर्झरे।
महोच्चश्रृङ्गे रुचिरे रत्नधातुविचित्रिते ।। ३९.३९ ।।
तत्रास्ते गारुडिर्नित्यं उरगारिर्दुरासदः।
महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ।। ३९.४० ।।
महाप्रमाणै र्विक्रान्तैर्महाबलपराक्रमैः।
सशैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ।। ३९.४१ ।।
करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः।
वृषभाङ्को महादेवः शङ्करो योगिनां प्रभुः ।। ३९.४२ ।।
नानावेषधरैर्भूतैः प्रमथैश्च दुरासदैः।
करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ।। ३९.४३ ।।
वसुधारे वसुमतां वसूनाममितौजसाम्।
अष्टावायतनान्याहुः पूजितानि महात्मनाम् ।। ३९.४४ ।।
रत्नधातौ गिरिवरे ऋषीणाञ्च महात्मनाम्।
सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ।। ३९.४५ ।।
महाप्रजापतेः स्थानं हेमश्रृङ्गो नगोत्तमे।
चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ।। ३०.४६ ।।
गजशैले भगवतो नानाभूतगणावृताः ।
रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ।। ३९.४७ ।।
सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसन्निभे।
नैकोदरदरीवप्रनिकुञ्जैश्चोपशोभिते ।। ३९.४८ ।।
आदित्यानां वसूनाञ्च रुद्राणाञ्चामितौजसाम्।
तत्रायतनविन्यासा रम्याश्चैवाश्विनोरपि ।। ३९.४९ ।।
स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे।
तत्र पूजापरा नित्यं यक्ष गन्धर्वकिन्नराः ।। ३९.५० ।।
गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे।
अशीत्यामरपुर्य्याभा महाप्राकारतोरणा ।। ३९.५१ ।।
सिद्धा ह्यपत्तना नाम गन्धर्वा युद्ध शालिनः।
येषामधिपतिर्देवो राजराजः कपिञ्जलः ।। ३९.५२ ।।
अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः।
ऊर्जिता देवरिपवो महाबलपराक्रमाः ।। ३९.५३ ।।
शतश्रृङ्गे पुरशतं यक्षाणाममितौजसाम्।
ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ।। ३९.५४ ।।
विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे।
गुहानिरतवासस्य गुहस्यायतनं महत् ।। ३९.५५ ।।
श्वेतोदरे महाशैले महाभवनमण्डिते।
पुरं गरुढपुत्रस्य सुनाभस्य महात्मनः ।। ३९.५६ ।।
पिशाचके गिरिवरे हर्म्यं प्रासाद मण्डितम्।
यक्षगन्धर्वचरितं कुबेरभवनं महत् ।। ३०.५७ ।।
हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः।
प्रभावात्तस्य शैलोऽसौ महानाभः प्रकाशते ।। ३९.५८ ।।
कुमुदे किन्नरावासा अञ्जने च महोरगाः।
कृष्णे गन्धर्व्वनगरा महाभवनशालिनः ।। ३९.५९ ।।
पाण्डुरे चारुशिखरे महाप्राकारतोरणे।
विद्याधरपुरं तत्र महाभवनमालिनम् ।। ३९.६० ।।
सहस्रशिखरे शैले दैत्यानामुग्रकर्म्मणाम्।
पुराणि समुदीर्णानां सहस्रं हेममालिनाम् ।। ३९.६१ ।।
मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः।
पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ।। ३९.६२ ।।
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च।
सुपक्षे पर्वतवरे चत्वार्य्यायतनानि च ।। ३९.६३ ।।
गन्धर्वैः किन्नरैर्यक्षैर्न्नागैर्विद्याधरोत्तमैः।
सिद्धैर्हि तेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ।। ३९.६४ ।।
इति श्रीमहा पुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।