गरुडपुराणम्/आचारकाण्डः/अध्यायः १०३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १०२ गरुडपुराणम्
अध्यायः १०३
वेदव्यासः
आचारकाण्डः, अध्यायः १०४ →

              ॥ याज्ञवल्क्य उवाच ॥
भिक्षोर्धर्मं प्रवक्ष्यामितिनिबोधत सत्तमाः ॥
वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ॥ 103.1 ॥

प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि ॥
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥ 103.2 ॥

सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत् ॥
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नाभिलक्षितः ॥ 103.3 ॥

रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः ॥
भवेत्परमहंसो वा एकदण्डी यमादितः ॥ 103.4 ॥

सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात् ॥
दाताऽतिथिप्रियो ज्ञानी गृही श्राद्धेऽपिमुच्यते ॥ 103.5 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमोऽध्यायः ॥ 103 ॥