गरुडपुराणम्/आचारकाण्डः/अध्यायः ८४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ८३ गरुडपुराणम्
अध्यायः ८४
वेदव्यासः
आचारकाण्डः, अध्यायः ८५ →

           ॥ब्रह्मोवाच ॥
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ॥
विधाय कापटं विषं ग्रामस्यापि प्रदक्षिणम् ॥ 84.1 ॥

ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ॥
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ 84.2 ॥

गृहाच्चलितमात्रस्य गयायां गमनं प्रति ॥
स्वर्गारोहणसोपानं पितॄणां तु पदे पदे ॥ 84.3 ॥

मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ 84.4 ॥

दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् ॥
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा ॥ 84.5 ॥

पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् ॥
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ 84.6 ॥

तस्मिन्निवर्त्तयेच्छ्राद्धं स्नानं चैव निवर्त्तयेत् ॥
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः ॥ 84.7 ॥

दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत् ॥
ऋणत्रयापाकरणं लभेद्दक्षिणमानसे ॥ 84.8 ॥

सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः ॥
लेलिहानैर्महाघोरैरक्षतैः पन्नगोत्तमैः ॥ 84.9 ॥

नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम् ॥ 84.10 ॥

तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम् ॥
सूर्य्यं नत्वा त्विदं कुर्य्यात्कृतपिण्डादिसत्क्रियः ॥ 84.11 ॥

कव्यवाहस्तथा सोमो यमश्चैवार्य्यमा तथा ॥
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥ 84.12 ॥

आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह ॥
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥ 84.13 ॥

तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् ॥
कृतपिण्डः फल्गुतीर्थे पश्यैद्देवं पितामहम् ॥ 84.14 ॥

गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत् ॥
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ 84.15 ॥

आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥
प्रथमेह्निविधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ॥ 84.16 ॥

धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत् ॥
धर्मारण्यं समासाद्य वाजपेयफलं लभेत् ॥ 84.17 ॥

राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके ॥
श्राद्धं पिण्डोदकं कार्य्यं मध्ये वै कूपयूपयोः ॥ 84.18 ॥

कूपोदकेन तत्कार्य्यं पितॄणां दत्तमक्षयम् ॥
तृतीयेऽह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम् ॥ 84.19 ॥

कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः ॥
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः ॥ 84.20 ॥

तेषां सेवनमात्रेण पितरो मोक्षगामिनः ॥
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ 84.21 ॥

फल्गुतीर्थे चतुर्थेऽहनि स्नात्वा देवादितर्पणम् ॥
कृत्वा श्राद्धंगयाशीर्षे कुर्याद्रुद्रपदादिषु ॥ 84.22 ॥

पिण्डान्देहिमुखे व्यासे पंचाग्नौ च पदत्रये ॥
सूर्य्येन्दुकार्त्तिकेयेषु कृतं श्राद्धं तथाक्षयम् ॥ 84.23 ॥

श्राद्धं तु नवदेवत्यं कुर्य्याद्द्वादशदैवतम् ॥
अन्वष्टकासु वृद्धौ च गयायां मृतवासरे ॥ 84.24 ॥

अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ॥
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम् ॥ 84.25 ॥

रुद्रपादं नरः स्पृष्ट्वा न चेहावर्त्तते पुनः ॥
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात् ॥ 84.26 ॥

स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे ॥
शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे ॥ 84.27 ॥

पितरो यान्ति देवत्वं नात्र कार्य्या विचारणा ॥
मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता ॥ 84.28 ॥

अल्पेन तपसा तत्र महापुण्यमवाप्नुयात् ॥
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत् ॥ 84.29 ॥

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥
पञ्चमेऽह्नि गंदालोले स्नात्वा वटतले ततः ॥ 84.30 ॥

पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम् ॥
वटमूलं समासाद्य शाकेनोष्णोदकेन वा ॥ 84.31 ॥

एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः ॥
कृते श्राद्धेऽक्षयवटे दृष्ट्वा च प्रपितामहम् ॥ 84.32 ॥

अक्षयान्लभते लोकान्कुलानामुद्धरेच्छतम् ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ॥ 84.33 ॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
प्रेतः कश्चित्समुद्दिश्य वणिजं कञ्चिदब्रवीत् ॥ 84.34 ॥

मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु ॥
प्रेतभावाद्विमुक्तः स्यांस्वर्गदो दातुरेव च ॥ 84.35 ॥

श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम् ॥
प्रददावनुजैः सार्द्धं स्वपितृभ्यस्ततो ददौ ॥ 84.36 ॥

सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिंडदः ॥
विशालायां विशालोऽभूद्राजपुत्रोब्रवीद्द्विजान् ॥ 84.37 ॥

कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम् ॥
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥ 84.38 ॥

विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान् ॥
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ॥ 84.39 ॥

के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् ॥
अहं सितस्ते जनक इन्द्रलोकं गतः शुभम् ॥ 84.40 ॥

मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् ॥
अयं पितामहः कृष्ण ऋषयोऽनेन घातिताः ॥ 84.41 ॥

अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डदः ॥
मुक्तीकृतास्ततः सर्वे व्रजामः स्वर्गमुत्तमम् ॥ 84.42 ॥

कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ ॥
येऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः ॥ 84.43 ॥

ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिस्सृताः ॥
येषां दाहो न क्रियाच येऽग्निदग्धास्तथापरे ॥ 84.44 ॥

भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥ 84.45 ॥

माता पितामही चैव तथैव प्रपितामही ॥
तथा मातामहश्चैव प्रमातामह एव च ॥ 84.46 ॥

वृद्धप्रमातामहश्च तथा मातामही परम् ॥
प्रमातामही तथा वृद्धप्रमातामहीति वै ॥ 84.47 ॥

अन्येषां चैव पिंडोऽयमक्षय्यमुपतिष्ठताम् ॥ 84.48 ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः ॥ 84 ॥