गरुडपुराणम्/आचारकाण्डः/अध्यायः ५७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ५६ गरुडपुराणम्
अध्यायः ५७
वेदव्यासः
आचारकाण्डः, अध्यायः ५८ →

              ॥ हरिरुवाच ॥
सप्ततिस्तु सहस्त्राणि भूम्युच्छ्रायोऽपि कथ्यते ॥
दशसाहस्त्रमेकैकं पातालं वृषभध्वज ॥ 57.1 ॥

अतलं वितलं चैव नितलं च गभस्तिमत् ॥
महाख्यं सुतलं चाग्रयं पातालं चापि सप्तमम् ॥ 57.2 ।

कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना ॥
भूयस्तत्र दैतेया वसन्ति च भुजङ्गमाः ॥ 57.3 ॥

रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु ॥
रौरवः सूकरो रोधस्तालो विनशनस्तथा ॥ 57.4 ॥

महाज्वालस्तप्तकुम्भो लवणोऽथि विमोहितः ॥
रुधिराख्यो वैतरणी कृमिशः कृमिभो जनः ॥ 57.5 ॥

असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः ॥
तथा पूयवहः पापो वह्निज्वालस्त्वधः शिराः ॥ 57.6 ॥

संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥
श्वभोजनोऽथाप्रतिष्ठोष्णवीचिर्नरकाः स्मृताः ॥ 57.7 ॥

पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः ॥
उपर्य्युपरि वै लोका रुद्र ! भूतादयः स्थिताः ॥ 57.8 ॥

वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत् ॥
तदण्डं महता रुद्र ! प्रधानेन च वेष्टितम् ॥ 57.9 ॥

अण्डं दशगुणं व्याप्तं नारायणः स्थितः ॥ 57.10 ॥

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥