गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १

विकिस्रोतः तः
गरुडपुराणम्
अध्यायः १
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः),अध्यायः २ →

श्रीगरुडमहापुराणम्
श्रीगणेशाय नमः ।
तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते ।
ओं नमो भगवते वासुदेवाय ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ २,१.म ॥
धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः ।
क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥ २,१.१ ॥

नैमिषेऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः ।
कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन् ॥ २,१.२ ॥

सूत जानासि सकलं वस्तु व्यासप्रसादतः ।
तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि ॥ २,१.३ ॥

यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन ।
देहिनोऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि ॥ २,१.४ ॥

केचित्पुनर्यातनानां यामीनामुपभोगतः ।
पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत् ॥ २,१.५ ॥

सूत उवाच
साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः ।
सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम् ॥ २,१.६ ॥

तदहं कृष्णगरुडसंवादद्वारकं द्विजाः ।
अपाकरिष्ये सन्देहं भवतां भावितात्मनाम् ॥ २,१.७ ॥

नमः कृष्णाय मुनये य एनं समुपाश्रिताः ।
अञ्जस्तरन्ति संसारसागरं कुनदीमिव ॥ २,१.८ ॥

एकदा वैनतेयस्य लोकानां लोकनस्पृहा ।
बभूव सोऽथ बभ्राम तेषु नाम हरेर्गृणन् ॥ २,१.९ ॥

स पातालं भुवं स्वर्गं भ्रान्त्वालब्धशमाशयः ।
लोकदुः खेनातिदुः खी पुनर्वैकुण्ठमागमत् ॥ २,१.१० ॥

न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितम् ।
यत्र प्रवर्तते नैव सत्त्वमेव प्रवर्तते ॥ २,१.११ ॥

न यत्र माया नाशश्च न चै रागादयो मलाः ।
श्यामावदाताः सुरुचः शतपत्रविलोचनाः ॥ २,१.१२ ॥

सुरासुरार्चिता यत्र गणा विष्णोः सुपेशसः ।
पिशङ्गवस्त्राभारणा मणियुङ्निष्कभूषिताः ॥ २,१.१३ ॥

चतुर्भुजाः कुण्डलिनो मौलिनो मालिनस्तथा ।
भ्राजिष्णुभिर्विमानानां पङ्किभिर्ये महात्मनाम् ॥ २,१.१४ ॥

द्योतन्ते द्योतमानानां प्रमदानां च पङ्क्तिभिः ।
श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति ॥ २,१.१५ ॥

हरिं गायति दोलास्थं गीयमानालिभिः स्वयम् ।
ददर्श श्रीहरिं तत्र श्रीपतिं सात्वतां पतिम् ॥ २,१.१६ ॥

जगत्पतिं यज्ञपतिं पार्षदैः परिषेवितम् ।
सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम् ॥ २,१.१७ ॥

भृत्यप्रसादसुमुखमायतारुणलोचनम् ।
किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितम् ॥ २,१.१८ ॥

पीतांशुकं चतुर्बाहुं प्रसन्नहसिताननम् ।
अभ्यर्हणासनासीनं ताभिः शक्तिभिरावृतम् ॥ २,१.१९ ॥

प्रधानपुरुषाभ्यां च महता चाहमा तथा ।
एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च ॥ २,१.२० ॥

स्वरूपेरममाणं तमीश्वरं विनतासुतः ।
तद्दर्शनाह्लादयुतस्वान्तो हृष्यत्तनूरुहः ॥ २,१.२१ ॥

लोचनाभ्यामश्रु मुञ्चन्प्रेममग्नो ननाम ह ।
नमागतं नतं स्वीय वाहनं विष्णुरब्रवीत् ।
भूमिः का लङ्घिता पक्षिंस्त्वयेयन्तमनेहसम् ॥ २,१.२२ ॥

गरुड उवाच
तव प्रसादाद्वैकुण्ठ त्रैलोक्यं सचराचरम् ॥ २,१.२३ ॥

मया विलोकितं सर्वं जगत्स्थावरजङ्गमम् ।
भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो ॥ २,१.२४ ॥

भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु ।
मानुष्यं सर्वभूतानां भुक्तिमुक्त्यालयं शुभम् ॥ २,१.२५ ॥

अतः सुकृतिनां लोको न भूतो न भविष्यति ॥ २,१.२६ ॥

गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २,१.२७ ॥

प्रेतः कौक्षिप्यते कस्मात्पञ्चरत्नं मुखे कथम् ।
अधस्ताच्चालिता दर्भाः पादौ याम्यां व्यवस्थितौ ॥ २,१.२८ ॥

किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रतः ।
किमर्थं दीयते दानं गोदानमपि केशव ॥ २,१.२९ ॥

बन्धुमित्राण्यमित्राश्च क्षमापयन्ति तत्कथम् ।
तिलालोहं हिरण्यं च कर्पासं लवणं तथा ॥ २,१.३० ॥

सप्तधान्यं क्षितिर्गावो दीयन्ते केनहेतुना ।
कथं हि म्रियते जन्तुर्मृतो वै कुत्र गच्छति ॥ २,१.३१ ॥

अतिवाहशरीरं च कथं हि श्रयते तदा ।
शवं स्कन्धे वहेत्पुत्रो अग्निदाता च पौत्रकः ॥ २,१.३२ ॥

आज्येनाभ्यञ्जनं कस्मात्कुत एकाहुतिक्रिया ।
वसुन्धरा किमर्थं च कुतः स्त्रीशब्दकीर्तनम् ॥ २,१.३३ ॥

यमसूक्तं किमर्थं च उदीच्या दिशमाहरेत् ।
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २,१.३४ ॥

यवसर्षपदूर्वास्तु पाषाणे निम्बपत्रकम् ।
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २,१.३५ ॥

अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह ।
नवकांश्चैव पिण्डांश्च किमर्थं ददते सुताः ॥ २,१.३६ ॥

किमर्थं चत्वरे दुग्धं यात्रे पक्वे च मृन्मये ।
काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पथे ॥ २,१.३७ ॥

निशायां दीयते दीपो यावदब्दं दिनेदिन ।
दाहोदकं किमर्थं च किमर्थं च जनैः सह ॥ २,१.३८ ॥

भगवन्नाति वाहश्च नव पिण्डाः प्रदापयेत् ।
कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम् ॥ २,१.३९ ॥

इदञ्चेत्क्रियते देव कस्मात्पिण्डं प्रदापयेत् ।
किं तत्प्रदीयते तस्य पिण्डदानाद्यनन्तरम् ॥ २,१.४० ॥

अस्थिसञ्चयनं चैव घटस्फोटं तथैव च ।
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ॥ २,१.४१ ॥

दशमे किं मलस्नानं कार्यं सर्वजनैः सह ।
कस्मात्तैलोद्वर्तनं च स्कन्धवाहगृहं नयेत् ॥ २,१.४२ ॥

तैलोद्वर्तनकं चापि दधुः स्थूलजलाशये ।
दशमेऽहनि यत्पिण्डं तद्दद्या दामिषेण तु ॥ २,१.४३ ॥

पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम् ।
भाजनोपानहौ च्छत्रं वासांसि त्वङ्गुलीयकम् ॥ २,१.४४ ॥

त्रयोदशेऽह्नि देयं स्यात्पददानं किमर्थकम् ।
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो घटः ॥ २,१.४५ ॥

अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम् ।
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ॥ २,१.४६ ॥

प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो ॥ २,१.४७ ॥

छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ।
तेजो वदस्व मे नाथ वायुराकाशमेव च ॥ २,१.४८ ॥

कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च ।
वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम् ॥ २,१.४९ ॥

लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।
तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना ॥ २,१.५० ॥

पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा ।
नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,१.५१ ॥

सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा ।
प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत् ॥ २,१.५२ ॥

मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते ।
ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि ॥ २,१.५३ ॥

यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ।
पापिनो ये दुराचारा ये चान्ये गतबुद्धयः ॥ २,१.५४ ॥

आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ।
कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम् ॥ २,१.५५ ॥

धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव ।
शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत् ॥ २,१.५६ ॥

भीतोऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो ।
अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात् ॥ २,१.५७ ॥

लोकांल्लोकयता लोके जगाहे विश्वमण्डलम् ।
तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः ॥ २,१.५८ ॥

स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी ।
त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः ॥ २,१.५९ ॥

इष्टवस्तुवियो गैश्च पाताले मामकं भयम् ।
एवं न निर्भयं स्थानमन्यदीश भवत्पदात् ॥ २,१.६० ॥

असत्यं स्वप्नमायावत्कालेन कवलीकृतम् ।
तत्रापि भारते वर्षे बहुदुः खस्य भागिनः ॥ २,१.६१ ॥

जना दृष्टा मया रागद्वेषमोहादिविप्लुताः ।
केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः ॥ २,१.६२ ॥

खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः ।
नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः ॥ २,१.६३ ॥

तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि ।
दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम् ॥ २,१.६४ ॥

मृतिर्यस्य विधानेन मरणादप्यनन्तरम् ।
विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ॥ २,१.६५ ॥

ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम् ।
ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो ॥ २,१.६६ ॥

म्रियमाणस्य किं कृत्यं किं दानं वासवानुज ।
वाहमृत्योरन्तराले को विधिर्दहनस्य च ॥ २,१.६७ ॥

सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते ।
संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया ॥ २,१.६८ ॥

प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च ।
प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ॥ २,१.६९ ॥

सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै ॥ २,१.७० ॥


इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे (प्रेतखण्डे) श्रीकृष्णगरुडसंवादे प्रश्रप्रपञ्चो नाम प्रथमोऽध्यायः