श्रीदिनेशस्तवः

विकिस्रोतः तः
श्रीदिनेशस्तवः
[[लेखकः :|]]

शृङ्गगिरि निकटस्थ श्रीसूर्यनारायण देवस्थाने विरचितम्

मानससरोगतं मे
शोषय पङ्कं खरोस्र दिननाथ ।
नो चेत्खरत्वमेषा-
मस्राणां भूयात्कथं ब्रूहि ॥१॥
निवार्य बाह्यं परमन्धकारं
दिनेश गर्वं कुरुषे वृथा त्वम् ।
यद्यस्ति शक्तिस्तव मामकीन-
मन्तःस्थमान्ध्यं विनिवारयाशु ॥२॥

॥इति श्रीमच्छृङ्गेरी जगद्गुरु श्रीमत्परमहंसपरिव्राजकाचार्य अनन्तश्री सच्चिदानन्द शिवाभिनवनृसिंहभारती महास्वामिभिः शृङ्गगिरि निकटस्थ श्रीसूर्यनारायण देवस्थाने विरचितं श्रीदिनेश स्तवः॥

"https://sa.wikisource.org/w/index.php?title=श्रीदिनेशस्तवः&oldid=33026" इत्यस्माद् प्रतिप्राप्तम्