कालिकापुराणम्/अध्यायः २९

विकिस्रोतः तः

कालिकापुराणम् एकोनत्रिंशोऽध्यायः वाराहशङ्करसंवादः
अथ कालिका पुराण अध्याय २९
।। ऋषयः ऊचुः ।।
ये सृष्टाः शम्भुना पूर्वं भूतग्रामाश्चतुर्विधाः ।
किमर्थं समुत्पन्नाः कथं वानेकरूपता ।। १ ।।
शरीरमर्द्ध वाराहमर्द्ध दन्ताबलं तथा ।
सिंहव्याघ्रशरीराच्च केचित्केचिद्गणाधिपाः ॥२॥
कथं ते वा गणाः क्रूराः किं भोगास्ते महौजसः ।
एतत् सर्वं वयं श्रोतुमिच्छामो द्विजसत्तम ।। ३ ।।
।। मार्कण्डेय उवाच ।।
शृण्वन्तु मुनयः सर्वे यथा शम्भुगणाभवन् ।
यदर्थं ते समुत्पन्ना यस्मात्ते नैकरूपिणः ॥४॥
एतद्वः परमं गुह्यमिदं धर्मार्थकामदम् ।
एतद् हि परमं तेजः सततं परमं तपः ॥५॥
इदं श्रुत्वा महाख्यानं परत्रेह न सीदति ।
यशस्यं धर्म्यमायुष्यं तुष्टिपुष्टिप्रदं परम् ॥ ६ ॥
आदिसर्गेऽथ वाराहे सम्पूर्णे मुनिसत्तमाः ।
शङ्करः प्राह सर्वेशं वाराहं जगतां पतिम् ।।७।।
।। ईश्वर उवाच ।।
यदर्थं भवता रूपं वाराहं कल्पितं विभो ।
तत्ते पूर्णं कृतं पृथ्वी यथावत् स्थापिता त्वया ॥८॥
सागराणां च संस्थानं नदीनां च तथा क्षितेः ।
सृष्टिर्ब्रह्मकृता चापि संजाता त्वत्प्रसादतः ।।९।।
त्वं हि सर्वमयो यज्ञमयस्तेजोमयस्तथा ।
गुरूणामथ सर्वेषां त्वं गुरुस्त्वं परात्परः ।। १० ।।
त्वां वोढुं न क्षमा पृथ्वी विशीर्णेव जगत्पते ।
यन्त्रिता शैलसङ्घातैर्भवता स्थापितैः पुरा ।। ११ ।।
तस्मात्त्वं त्यज वाराहं शरीरं जगतां पतेः ।
जगन्मयं जगद्रूपं जगत्कारणकारणम् ।। १२ ।।
कस्त्वां चान्यः क्षमो वोढुं वाराहं ते वपुर्विभो ।
विशेषतस्त्वया पृथ्वी सकामा धार्षिता जले ।
स्त्रीधर्मिणी त्वत्तेजोभिः साधाद्गर्भं च दारुणम् ।। १३ ।।
रजस्वला क्षमा गर्भं यमाधत्त जगत्पते ।
तस्माद्यस्तनयो भावी सोऽप्यादास्यति दुर्यशः ॥ १४ ॥
एष प्राप्यासुरं भावं देवगन्धर्वहिंसकः ।
भविष्यतीति लोकेशः प्राह मां दक्षसन्निधौ ।। १५ ।।
मलिनीरतिसंजातं दुष्टन्तेऽनिष्टकारकम् ।
कामुकं त्यज लोकेश वाराहं कायमीदृशम् ।। १६ ।।
त्वमेव शृष्टिस्थित्यन्तकारको लोकभावनः ।
काले प्राप्ते स्थितिं सृष्टिं संहारं च करिष्यसि ।। १७ ।।
तस्माल्लोकहितार्थाय त्यक्त्वा कायं महाबल ।
काले प्राप्ते पुनस्त्वन्यं कायं पोत्रं करिष्यसि ।। १८ ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा शङ्करस्य महात्मनः ।
वाराहमूर्तिर्भगवान् महादेवमुवाच ह ।। १९ ।।
।। श्रीभगवानुवाच ।।
करिष्येऽहं तव वचस्त्वं यथात्थमहेश्वर ।
इमं तु यज्ञवाराहं कायं त्यक्ष्ये न संशयः ।। २० ।।
काले प्राप्ते पुनस्त्वन्यं कायं वाराहमद्भुतम् ।
करिष्येऽहं दुराधर्षं लोकानां भावनाय वै ।। २१ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा स महाकायस्तत्रैवान्तरधीयत ।
जगत्गुरुर्जगत्स्रष्टा जगद्धाता जगत्पतिः ।। २२ ।।
तस्मिन्नन्तर्हिते देवे देवदेवो महेश्वरः ।
निजं स्थानं देवगणैः स्वगणैश्च जगाम ह ।। २३ ।।
वाराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् ।
वाराह्या सह रेमे स पृथिव्या चारुरूपया ।। २४ ।।
स तया रममाणस्तु सुचिरं पर्वतोत्तमे ।
नावाप तोषं लोकेशःपोत्री परमकामुकः ।। २५ ।।
पृथिव्याः पोत्रीरूपाया रमयन्त्यास्ततः सुताः ।
त्रयो जाता द्विजश्रेष्ठास्तेषां नामानि मे शृणु ।। २६ ।।
सुवृत्तः कनको घोरः सर्व एव महाबलाः ।। २७ ।।
शिशवस्ते मेरुपृष्ठे काञ्चने वप्रसंस्तरे ।
रेमिरेऽन्योन्यसंसक्ता गह्वरेषु सरः सु च ।। २८ ।।
स तैः पुत्रैः परिवृतो वाराहो भार्यया स्वया ।
रममाणस्तदा कायत्यागं नैवागणद्विजाः ।। २९ ।।
कदाचिच्चिशुभिस्तैस्तु संश्लिष्ट: कर्दमान्तरे ।
चकार कर्दमक्रीडां भार्यया च महाबलः ।। ३० ।।
सपंकलेपः शुशुभे वराहो मधुपिंगलः ।
सन्ध्याघनो यथातोयं क्षरंस्तोयं तथाविधः ।। ३१ ।।
स पुत्रैः परमप्रीतो भार्यया च पृथिव्यया ।
विरुजं धरणीं रेमे मध्यनिम्नाथ साभवत् ।। ३२।।
अनन्तोऽपि समाक्रम्य कूर्मं स पृथिवीतले ।
हरिं वहन् भग्नशिराः सातंकोऽभूत्प्रपीडया ।। ३३ ।।
सुवृत्तेन स्वर्णवप्रं घोरेण कनकेन च ।
विदारितं पोत्रघातैः स्वर्णभग्नात् कृतं समम् ।। ३४ ।।
मेरुपृष्ठे यानि यानि सौवर्णानि द्विजोत्तमाः ।
रचितानि सुरैर्यनात्तानि भग्नानि तत्सुतैः ।। ३५।।
मानसादीनि देवानां सरांसि शिशवोऽथ ते ।
आविलानि तदा चक्रुः पोत्रधातैः समन्ततः ।। ३६ ।।
पृथिवीवनितारूपा रमयामास पोत्रिणम् ।
स्थावरेण तु रूपेण दुःखमाप्नोति वै दृढम् ।। ३७ ।।
सागराश्च सुवृत्ताद्यैरवगाह्य समन्ततः ।
विकीर्णरत्न: पोत्रौधैः सर्व एवाकुलीकृताः ॥३८॥
इतस्ततश्च शिशुभिः क्रीडद्धिः पोत्रिभिस्तदा ।
जगन्ति तत्र भग्नानि नद्यः कल्पद्रुमास्तथा ।। ३९ ।।
जानन्नपि जगद्धर्ता वराहः स्वयमेव हि ।
जगत्पीड़ां सुतस्नेहाद्वारयामास नैव तान् ।। ४० ।।
सुवृत्तः कनको घोरो यदागच्छति वै दिवम् ।
तदा देवगणाः भीताः प्राद्रवन्ति दिशो दश ।। ४१ ।।
एवं सुतैर्भाया यज्ञपोत्री क्रीडंस्तुष्टिं नाप काञ्चित् कदाचित् ।
नित्यं नित्यं वर्ध तस्य कामः कायं त्यक्तुं नैच्छदेष प्रदिष्टः ।। ४२ ।।
॥ इति श्रीकालिकापुराणे वाराहशङ्कर संवादे एकोनत्रिंशोऽध्यायः ॥ २९ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand