कालिकापुराणम्/अध्यायः ५८

विकिस्रोतः तः

।।श्री भगवानुवाच।।
देव्यास्तन्त्रं विशेषेण शृणुतं साम्प्रतं युवाम्।
येन चाराधिता देवी नचिराद्वरदा भवेत।। ५८.१ ।।

पूर्वतन्त्राद्विशेषण तथा वै तन्त्रमुत्तरम्।
विशेषेण च सामान्यात् कथितं भवतोः पुरा।। ५८.२ ।।

पुनर्देव्या विशेषेण पूजायां भक्तिकर्मणि।
यानि तन्त्राणि शेषाणि तानि वक्ष्याम्यहं पुनः।। ५८.३ ।

यः कुर्यात् तु महामायाभक्तिमेकाग्रमानसः।
अङ्गिना वाङ्गिमन्त्रेण तेन कार्यमिदं शुभम्।। ५८.४ ।।

फलं पुष्पं च ताम्बूलमन्नपानादिकं च यत्।
अदत्त्वा तु महादेव्यै न भोक्तव्य कदाचन।। ५८.५ ।।

पथि वा पर्वताग्रे वा सभायामपि साधकः।
यथा तथा निवेद्यैव स्वमर्थमुपकल्पयेत्।। ५८.६ ।।

दृष्ट्वैव मदिराभाण्डं रक्तवर्णास्तथा स्त्रियः ।
सिंहं शवं रक्तपद्मं व्याघ्रवाराणसङ्गमम्।। ५८.७ ।।

गुरुं राजानमथवा महामायां ततो नमेत्।
पतिव्रतायां भार्यायां सदैव ऋतुसङ्गमः।। ५८.८ ।।

क्रियते चण्डिकां ध्यात्वा तदा कार्यो विभूतये।
शान्तिकं पौष्टिकं वापि तथेष्टापूर्त्तकर्मणी।। ५८.९ ।।

यदा कुर्यात् तदा नत्वा देवीयात्रां समाचरेत्।
तौर्य्यत्रिकं यदा पश्येत् केवलं गीतमेव वा।। ५८.१० ।।

तच्च देव्यै निवेद्यैव कर्तव्यं स्वोपयोजनम्।
यदेव भूषणं वासो मलयोद्भवमेव वा।। ५८.११ ।।

स्वकाये परियुञ्जीत तत्र मन्त्रं धिया न्यसेत।
व्यायामे च विधाने च सभायां वा जले स्थले।। ५८.१२ ।।

यत्र यत्र स्वयं गच्छेत् तत्र देवीं सदा स्मरेत्।
यद् यत् कर्म तु पूजाङ्गं तत्तन्मन्त्रेण चाचरेत्।। ५८.१३ ।।

मन्त्रहीनं पूजनाङ्गं कर्म यत् तत्तु निष्फलम्।
यस्मिन् कर्मणि योद्दिष्टो मन्त्रर्पूजासु भैरव।। ५८.१४ ।।

नैवेद्यालोकमन्त्रेण तत् तत् कर्म समाचरेत्।
देव्यास्तु मण्डलन्यासमिष्टमन्त्रेण चाचरेत्।। ५८.१५ ।।

पूजान्ते मण्डलं लिप्त्वा तिलकं तेन कारयेत् ।
सर्ववश्येन मन्त्रेण धर्मकामार्थदायिना।। ५८.१६ ।।

बलिदाने बलिं छित्वा खड्गस्थै रुधिरैः स्वकैः।
सर्ववश्येन मन्त्रेण ललाटे तिलकं न्यसेत्।। ५८.१७ ।।

जगद्‌वशे भवेत् तस्य चतुर्थः कस्य वह्निना ।
षष्ठस्वरेण संयुक्तः कलाबिन्दुसमन्वितः।। ५८.१८ ।।

अथोपान्तस्थकारान्तः सपरोऽपि तथा पुनः।
द्विर्मोहीति हकारास्य तुर्यो द्विस्वरसंयुतः।। ५८.१९ ।।

तृतीयवर्गप्रान्तेन तृतीयस्वरसंज्ञिना।
पूरितान्तो द्विधा वर्णस्तथा वादिचतुर्थकः।। ५८.२० ।।

स्वरो द्वितीयश्च तथा क्षोभशब्दः पुरः सरः।
पुरेति सहितः सोऽपि मित्रं शत्रुश्च राक्षसः।। ५८.२१ ।।

दक्षप्रजा तथा राजा सर्वशास्त्र इति श्रुतः।
विनापि पूजनं कुर्याद् यो रहिस्तिलकं नरः।। ५८.२२ ।।

मन्त्रेणानेन सततं सर्वं तस्य वशे भवेत्।
राजा वा राजुपत्रो वा स्त्रियो वा यक्षराक्षसाः।। ५८.२३ ।।

सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः।
प्रवासे पथि वा दुर्गे स्थानापाप्तौ जलेऽपि वा।। ५८.२४ ।।

कारागारे निबद्धो वा प्रायोवेशगतोऽपि वा।
कुर्यात् तत्र महामायापूजां वै मानसीं बुधः।। ५८.२५ ।।

मनोभये समुत्पन्ने सिंहव्याघ्रसमाकुले।
परचक्रागमे वापि कुर्यान्मानसपूजनम्।। ५८.२६ ।।

मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम्।
तत्रैव पृथिवीमध्ये पूजां तत्र समाचरेत्।। ५८.२७ ।।

मैत्रं प्रसाधनं स्नानं दन्तधावनकर्म वै।
अन्यच्च सर्वं मनसा कृत्वा कुर्याच्च पूजनम्।। ५८.२८ ।।

पश्चात् पुष्पादिभिः पूजा बहिर्देशे विधीयते।
तथा हृद्यपि कर्तव्या सर्वाश्च प्रतिपत्तयः।। ५८.२९ ।।

अष्टम्यां सततं देवीयाजकः स्यात् सदा व्रती।
नवम्यां तु तथा पूजा कर्तव्या निजशोणितैः।। ५८.३० ।।

लिङ्गस्थां पूजयेद् देवीं पुस्तकस्थां तथैव च।
स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च।। ५८.३१ ।।

चित्रे च त्रिशिखे खड्गं जलस्थां वापि पूजयेत्।
पञ्चाशदङ्गुलं खड्गं त्रिशिखं च त्रिशूलकम्।। ५८.३२ ।।

शिलायां पर्वतस्याग्रे तथा पर्वतगह्वरे।
देवीं सम्पूजयेन्नित्यं भक्तिश्रद्धासमन्वितः।। ५८.३३ ।।

वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी।
ततस्तद्‌द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ।। ५८.३४ ।।

ततोऽपि द्विगुणा प्रोक्ता द्वारावत्यां विशेषतः।
सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा।। ५८.३५ ।।

विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा।
आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च।। ५८.३६ ।।

विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा।
ततश्चतुर्गुणा प्रोक्ता करतोया नदीजले।। ५८.३७ ।।

तस्माच्चतुर्गुणफला नन्दिकुण्डे च भैरव।
ततश्चतुर्गुणा प्रोक्ता जल्पिषे श्वरसन्निधौ।। ५८.३८ ।।

तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता।
ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि।। ५८.३९ ।।

तत्समा कामरूपे तु सर्वत्रैव जले स्थले।
सर्वश्रेष्ठो यता विष्णुर्लक्ष्मीः सर्वोत्तमा यथा।। ५८.४० ।।

देवीपूजा तथा शस्ता कामरूपे सुरालये।
देवीक्षेत्रं कामरूपं विद्यतेऽन्यत्र ततत्समम्।। ५८.४१ ।।

अन्यत्र विरला देवी कामरूपे गृहे गृहे।
ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके।। ५८.४२ ।।

ततोऽपि द्विगुणा प्रोक्ता हेरुके शिवलिङ्गके।
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्यादियोनिषु।। ५८.४३ ।।

ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले।
कामाख्यायां महामायापूजां यः कृतवान् सकृत्।। ५८.४४ ।।

स चेह लभते कामान् परत्र शिवरूपताम्।
न तस्य सदृशोऽन्योऽस्ति कृत्यं तस्य न विद्यते।। ५८.४५ ।।

वाञ्छितार्थमवाप्येह चिरायुरभिजायते।
वायोरिव गतिस्तस्य भवेदन्यैरबाधिता।। ५८.४६ ।।

सङ्ग्रामे शास्त्रवादे वा दुर्जयः स च जायते।
वैष्णवीतन्त्रमन्त्रेण कामाख्यायोनिमण्डले।
सकृत् तु पूजनं कृत्वा फलं शतगुणं लभेत्।। ५८.४७ ।।

मूलमूर्तिर्महामाया योगनिन्द्रा जगन्मयी।
तस्यास्तु वैष्णवीतन्त्रं मन्त्रं प्रतिपादितम्।। ५८.४८ ।।

अन्या या मूर्तयः प्रोक्ताः शैलपुत्र्यादयोऽपराः।
तस्या एव विभागास्तास्तच्छरीरविनिर्गताः।। ५८.४९ ।।

निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः।
देव्यास्तथोग्रचण्डाद्या महामायाशरोरतः।। ५८.५० ।।

तासामेवाङ्गरूपाणि वक्तव्यानि मया तव ।
एकैव तु महामाया कार्यार्थं भिन्नतां गता।। ५८.५१ ।।

कामाख्या तु महामाया मूलमूर्तिः प्रगीयते।
पीठैर्भिन्नाह्वया सा तु महामाया प्रगोयते।। ५८.५२ ।।

एक एव यथा विष्णुर्नित्यत्वाद् हि सनातनः।
जनानामर्दनात् सोऽपि जनार्दन इति श्रुतः।। ५८.५३ ।।

तथैव सा महामाया कामार्थं सङ्गता गिरौ।
कामाख्येति सदा देवैर्गद्यते सततं नरैः।। ५८.५४ ।।

यथा हि पुरुषः कोऽपि च्छत्रो च्छत्रग्रहाद् भवेत्।
स्नापकः स्नानकाले वै कामाख्यापि तथाह्वया।। ५८.५५ ।।

महामायाशरीरं तु कामार्थं समुपस्थितम्।
लोहितैः कुङ्कुमैः पीतं कामार्थमुपयोजितैः।। ५८.५६ ।।

खड्गं त्यक्त्वा कामकाले सा गृह्णानि स्रजं स्वयम्।
यदा तु त्यक्तकामा सा तदा स्यादसिधारिणी।। ५८.५७ ।।

कामकाले शिवप्रेते न्यस्तलोहितपङ्कजे।
रमते त्यक्ताकामा तु सितप्रेतोपरि स्थिता।। ५८.५८ ।।

तथैवेतस्ततो गत्या सिंहस्था कामदा भवेत्।
कदाचित् सा सितप्रेते कदाचिद्रक्तपङ्कजे।। ५८.५९ ।।

कदाचित् केशरीपृष्ठे रमते कामरूपिणी।
यदा लोहितपद्मस्था तथाग्रे केशरी चरः।। ५८.६० ।।

यदा प्रेतगता देवी तदाग्रेऽन्यं निरीक्षते।
महामायास्वरूपेण यदा सा वरदा भवेत्।। ५८.६१ ।।

पूजाकाले तदा प्रेतपद्मसिंहोपरि स्थिता।
रक्तपद्मे यदा ध्यायेत् तदाग्रे चिन्तयेद्धरिम्।। ५८.६२ ।।

यदा ध्यायेद्धरौ चान्यद्वयमग्रे विचिन्तयेत्।
त्रिषु ध्यातेषु युगपत् प्रेतपद्महरै क्रमात्।। ५८.६३ ।।

स्थितेषु कामदा देवी तेषु ध्यायेन कामदाम्।
एकैकस्मिन्नपि तथा यथावच्छिन्तयेच्छिवाम्।। ५८.६४ ।।

एका समस्ता जगतां प्रकृतिः सा यतस्ततः।
विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी।। ५८.६५ ।।

सितप्रेतो महादेवो ब्रह्मलोहितपङ्कजम्।
हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः।। ५८.६६ ।।

स्वमूर्त्या वाहनत्वं तु तेषां यस्मान्न युज्यते।
तस्मान्मूर्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः।। ५८.६७ ।।

यस्मिन् यस्मिन् महामाया प्रीणाति सततं शिवा।
तेन तेनैव रूपेम आसनान्यभवंस्त्रयः।। ५८.६८ ।।

सिंहोपरि स्थितं पद्‌मं रक्तं तस्योर्ध्वगः शिवः।
तस्योपरि महामाया वरदाऽभयदायिनी।। ५८.६९ ।।

एवं रूपेण यो ध्यात्वा पूजयेत् सततं शिवाम्।
ब्रह्मविष्णुशिवास्तेन पूजिताः स्युरसंशयम्।। ५८.७० ।।

एवं सदा महामाया कामाख्या चैकरूपिणी।
ध्यानतो रूपतो भिन्ना तस्मात्तां तत्र पूजयेत्।। ५८.७१ ।।

एवं विशेषतन्त्राणि दुर्गायाः कथितानि वाम्।
अङ्गमन्त्राणि तस्यास्तु श्रूयतां नरसत्तमौ।। ५८.७२ ।।

इति श्रीकालिकापुराणे अष्टपञ्चाशोऽध्यायः।।