मत्स्यपुराणम्/अध्यायः ११०
श्रृणु राजन्! प्रयागस्य महात्म्यं पुरनेव तु।
नैमिषं पुष्करञ्चैव गोतीर्थं सिन्धुसागरम्।। ११०.१ ।।
गया च चैत्रकं चैव गङ्गासागरमेव च।
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः।। ११०.२ ।।
दशतीर्थसहस्राणि त्रिंशत् कोट्यस्तथापराः।
प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः।। ११०.३ ।।
त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी।
प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता।। ११०.४ ।।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता।
यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी।। ११०.५ ।।
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्।
प्रयागं राजशार्दूल! कलां नार्हन्ति षोड़शीम्।। ११०.६ ।।
तिस्रः कोट्योऽर्द्धकोटिश्च तीर्थानां वायुरब्रवीत्।
दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता।। ११०.७ ।।
प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ।
भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः।। ११०.८ ।।
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो युधिष्ठिर!।
प्रजापतिमुपासन्ते ऋषयञ्च तपोधानाः।। ११०.९ ।।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः।
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत।। ११०.१० ।।
प्रभावात् सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो!।
दशतीर्थसहस्राणि तिस्त्रः कोट्यस्तथा पराः।। ११०.११।।
यत्र गङ्गा महाभागा स देशस्तत्तपोधनम्।
सिद्धक्षेत्रञ्च विज्ञेयं गङ्गातीरसमन्वितम्।। ११०.१२ ।।
इदं सत्यं विजानीयात् साधूनामात्मनश्च वै।
सुहृदश्च जपेत् कर्णे शिष्यस्यानुगतस्य च।। १००.१३ ।।
इदं धन्यमिदं स्वर्ग्यमिदं सत्यमिदं सुखम्।
इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम्।। ११०.१४ ।।
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्।
अधीत्य च द्विजोऽप्येतन्निर्मलः स्वर्गमाप्नुयात्।। ११०.१५ ।।
य इदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः।
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते।। ११०.१६ ।।
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः।
स्नाहि तीर्थेषु कौरव्य! न च वक्रमतिर्भवेत्।। ११०.१७ ।।
त्वया च सम्यक् पृष्टेन कथितं वै मया विभो।
पितरस्तारिताः सर्वे तथैव च पितामहाः।।
प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोड़शीम्।। ११०.१८ ।।
एवं ज्ञानञ्च योगञ्च तीर्थं चैव युधिष्ठिर!।
बहुक्लेशेन युज्यन्ते तेन यान्ति पराङ्गतिम्।
त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति।। ११०.१९ ।।