सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ ईशानशिवगुरुदेवपद्धतौ हिरण्यरत्लगन्धैस्तु मध्यकुम्भं प्रपूरयेत् । पांद्याचामार्थ्यगव्याज्यमधुक्षीरदधीनि च ॥ १५८ ॥ मध्याष्टकस्य तूतानि पूरणेऽथैन्द्रपञ्चके । चन्दनागरुकर्पूरकुङ्कुमोशीरवारिभिः ॥ १५९ ॥ आग्नेये पञ्चके शस्तं पञ्चधान्यैश्च नैर्ऋते । कुसुमोत्पलकल्हारपद्मश्वेतोरपलैरपि ॥ १६० ।। वायव्य पञ्चकेsuशे मल्लिकाजातिचम्पकैः । पाटलैः करवीरैश्च पञ्चकं पूरयेत् क्रमात् || १६१ ।। शिवब्रह्माङ्गमन्त्रेशमध्यमं नवकं स्मृतम् । ऐन्द्रादिकाष्टदिङ्मध्य + + +++ मूर्तयः ॥ १६२ ॥ मध्याद् दक्षिणतोऽष्टानां वामाद्याः शक्तयो यथा । मध्यादुत्तरकोष्ठानां शर्वाधं मूर्तिपाष्टकम् ।। १६३ ।। तदनन्तरकोष्ठानां वामभीमादिकाष्टकम् । शिष्टानामष्टकोष्ठानां विद्येशाः स्युः क्रमाधिपाः ॥ १६४ ॥ तन्मन्त्रास्तारह + +++++++ तकम् । ब्रह्माङ्गैरेव मध्यस्थेनाष्टकेनाभिषेचयेत् ॥ १६५ ।। ग्रागादिदिक्पञ्चकैस्तु चमकैः स्लृपयेच्छिवम् । पावमानीहिरण्यादिचतुष्कोणस्थपञ्चकैः ॥ १६६ ।। मध्ये शिवघटेनापि रुपयेद् व्योमविद्यया | एकोनपञ्चाशतः । [क्रियापारः अथैकाशीतिके मध्यकलशे रत्नपञ्चकम् ॥ १६७ ।। हेम चोक्तं सतीर्थाम्भरताकलशाष्टके | पायाचामार्थ्यगव्याज्यमधुदुग्धदधीन्यपि ॥ १६८ ॥ प्राच्यां तु नवके मध्ये चन्दनं रोचनामरु | कर्पूरकुङ्कुमं कुष्ठं मांसीग्रन्थिमुरं तथा ॥ १६९ ।। दक्षिणे वृषशृङ्गेभदन्तक्षेत्रनदीमृदः । तटाकगिरिवल्मीककुलीरह्मृत्तिकाः || १७० || चंतुः क्षीरागविल्वाम्रमधूकाशोकजम्वुजाः ॥ । शुभास्त्वचंश्च वारुण्यां नवके क्रमशः स्मृताः १७१ ॥