योगलक्षणम् | उत्तरार्धे प्रथमः पटलः । मन्तव्यं चैव बोद्धव्यं मानश्चैवाधिभूतकम् । चन्द्रो जीवा विरिञ्चश्चाप्यधिदै अन्यनुक्रमात् ॥ १० ॥ गुणत्रयमयी या सा प्रकृति: पुरुषस्तथा । रागो विद्यादितत्त्वानि मायान्तान्यखिलानि तु ॥ ११ ॥ मलं कर्म च माया च सर्वमस्य प्रवर्तकम् । जाग्रत् स्वप्नः सुषुप्तिश्चेत्यवस्थात्रितयं तथा ॥ १२ ॥ कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ । षडूर्मय इमे व्याप्ये मोहाब्धौं व्यापकाः स्मृताः ॥ १३ ॥ एवम्भूतं शरीरं यदाममृत्कुम्भसन्निभम् । जन्मादिभिः षड्किारैरध्यस्तमतिनश्वरम् ॥ १४ ॥ अस्वतन्त्रं कर्मवशात् प्रविशन् निर्विशन्नपि । प्रवसन्नपि संसारे भ्रमत्यात्मा ह्यलक्षितः ॥ १५ ॥ शरीराणि तथैतानि पञ्चधा मानसानि च । जरायुजान्यण्डजानि स्वेदजान्युद्भिदान्यपि || १६ || तत्र देवादिदेहाः स्युर्मानसाश्चाजरायुजाः । जरायुजा मनुष्याणां पशूनां च भवन्ति हि ॥ १७ ॥ सरीसृपाहिविहगशरीराण्यण्डजानि तु | जरायुजाश्चाण्डजाश्च देहाः स्युर्जलचारिणम् ॥ १८ ॥ स्वेदजाः क्रिमयः प्रोक्ताः स्थावरा चोद्भिदा मताः । सर्वे स्वकर्मवशगा भवन्ति न भवन्ति च ॥ १९ ॥ मृतिजन्मजले घोरे सुखदुःखझषाकुले । शोकमोहादिकालले त्वगाधे भवसागरे ॥ २० ॥ उन्मज्जन्तो निमज्जन्तः पुण्यपापैकबन्धनैः । निबद्धा देहिनः सर्वे स्वर्गभूनरकादिषु ॥ २१ ॥ मांसासृक्पूर्यविण्मूत्रस्नायुमज्जास्थिपञ्जरे । त्वचावृते शरीरेऽस्मिन् सौन्दर्य स्मर्थते कुतः ॥ २२ ॥ अस्थिपन्जरसारेऽस्मिन् मूत्रश्लेष्म मलाशये । मांसकेशनखस्नायु रुधिरत्वक्समावृते ॥ २३ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२०
दिखावट