अथ चातकान्योक्तयः ।
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
एक एव खगो मानी चिरं जीवतु चातकः ।
म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥
भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।
नवजलदादपि चञ्चपुटे यत्ते पतति न वारि ॥ १६० ॥
गर्जितबधिरीकृतककुभा किमपि कृतं न धनेन ।
कियती चातकचञ्जुपुटी सापि भृता न जलेन ॥ १६१ ॥
दीनोन्नतचलपक्षतया बह्वपि लब्धमवस्तु ।
चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥
चातकस्य मुखचञ्चसंपुटे नो पतन्ति यदि वारिबिन्दवः ।
सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४
अये वापीहंसा निजवसतिसंकोचपिशुनं
कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।
अमी सारङ्गास्ते [१]जलदजलपानव्यसनिनो
निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥
स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
पिबति न पयो मासानष्टौ बतापि न चातकः ।
मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [बाध्यति[२]]
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६ ॥