अथर्ववेदः/काण्डं १६/सूक्तम् ०७

विकिस्रोतः तः
← सूक्तं १६.६ अथर्ववेदः - काण्डं १६
सूक्तं १६.७
यमः
सूक्तं १६.८ →
दे. दु-स्वप्ननाशनम्, उषा। - - - - -- -

तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
एवानेवाव सा गरत्॥४॥
योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
सुयामंश्चाक्षुष ॥७॥
इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
स मा जीवीत्तं प्राणो जहातु ॥१३॥