लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ११३

विकिस्रोतः तः
← अध्यायः ११२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ११३
[[लेखकः :|]]
अध्यायः ११४ →

श्रीनरनारायण उवाच-
अथ श्रीभगवान् बद्रि कृष्णनारायणः प्रभुः ।
वर्तते कुंकुमवाप्यां सर्वसौख्यप्रदस्तदा ।। १ ।।
वासुदेवसहायार्थं पुत्रास्तेन परेऽपि च ।
प्रेषिता राज्यपुष्ट्यर्थं कलाशास्त्रविशारदाः ।। २ ।।
श्रियाः पुत्रो रासकृष्णश्चोपप्रधानकोऽभवत् ।
प्रज्ञापुत्रो ब्रह्मप्रभुः सैनापत्यमरक्षयत् ।। ३ ।।
पद्मावतीसुतोऽनन्तः कारागाराऽधिपोऽभवत् ।
ललितायाः सुतो लालेश्वरो राष्ट्राधिपोऽभवत् ।। ४ ।।
जयाया विजयः पुत्रश्चोपमन्त्री तदाऽभवत् ।
माणिक्याः कौस्तुभमणिर्न्यायप्रदोऽभवत् तदा ।। ५ ।।
कमलायाः पद्मनाभः सभाध्यक्षोऽभवत् सदा ।
रमासुतो रामसाक्षी विद्याधिकारवानभूत् ।। ६ ।।
राधात्मजो रायकेशी कोशाध्यक्षोऽभवत्तदा ।
नारायण्या नरदेवश्चोपसैन्याधिपोऽभवत् ।। ७ ।।
ब्राह्म्याः सुतो ब्रह्मरातो राजपुरोहितोऽभवत् ।
भागवत्याः सुतो भर्गो यज्ञकार्यकरोऽभवत् ।। ८ ।।
ऊर्जबलाद्या ये चाऽन्ये खण्डपालाश्च तेऽभवन् ।
द्वादशोर्ध्वशतानां तु पुत्रास्ते वै यथायथम् ।। ९ ।।
हर्युक्तव्यवसायेषु योजितास्तेऽभवँस्तदा ।
एवं राज्यं महानन्दप्रदं चाऽभूत्तदाऽभितः ।। 4.113.१ ०।।
बदरि! ते सुतस्तत्र बादरायणसंज्ञकः ।
ज्ञानदो दानदश्चासीद् दक्षिणादिप्रदायकः ।। ११ ।।
प्रजाश्च ज्ञानमासाद्य विदेहा इव चाऽभवन् ।
साक्षात्प्रभोर्ज्ञानवत्यो यात्रार्थमश्वसारसम् ।। १ २।।
द्रष्टुं नारायणं कृष्णं चायान्ति यान्ति वै मुहुः ।
अश्वपट्टसरस्तीर्थं तीर्थोत्तमोत्तमोत्तमम् ।। १ ३।।
व्यजायत हरेर्वासादाक्षरं क्षेत्रमुत्तमम् ।
आगत्य च महाभक्ताः कृष्णनारायणस्य तु ।। १४।।
प्रयान्ति चाऽक्षरं धाम परमं दिव्यमद्भुतम् ।
केचित् समाधिमासाद्य गत्वा चायान्ति तत् पुनः ।। १५।।
वर्णयन्ति हरेर्धामाऽक्षरं तत्परमं पदम् ।
श्रुत्वा श्रुत्वाऽपरे लोका मोदन्ते सात्त्वतोत्तमाः ।। १ ६।।
प्रशंसन्ति हरेर्धामाऽक्षरं तत्परमं पदम् ।
गोलोकाच्चापि वैकुण्ठादुत्तमं परमं पदम् ।। १७।।
यत्रैताः श्रीहरेः पत्न्यो मुक्तानिकात्मिकाः सदा ।
विराजन्तेऽनादिकृष्णनारायणस्य सेविकाः ।।१८।।
श्रुत्वैवं बद्रिके शंसां जिज्ञासा कृष्णयोषिताम् ।
उत्पन्ना वीक्षितुं दिव्यं धामाऽक्षरं सुखास्पदम् ।। १ ९।।
शाश्वतं ब्रह्मलोकं तं दिव्यं स्वस्वविराजितम् ।
अथाऽर्थनां तु ता नार्यश्चक्रुः स्वामिपतिं प्रति ।।4.113.२०।।
शाश्वतस्याऽक्षरधाम्नो लोकितुं दिव्यसम्पदः ।
हरिः प्राह तदा स्त्रीभ्यो न द्रष्टव्यं तच्चाऽधुना ।।२१।।
यस्य वै दर्शने तत्र स्थातुं मनः प्रजायते ।
पुनरागमने नैव मतिर्भवति देहिनाम् ।।२२।
मद्धामाऽग्रेऽन्यधामानि निस्तेजांसि विभान्ति वै ।
ईश्वराणां निलयास्तु भासन्ते निरया इव ।।२३।।
अक्षरस्य मम धाम्नो रसे पीते ततस्त्विह ।
पानं निःस्वादेव स्यान्मायामयं रसक्षयम् ।।२४।।
अक्षरस्य मम धाम्नो मिष्टान्ने भक्षिते त्विह ।
भोजनं स्वादहीनं स्यान्मायामयं रसक्षयम् ।।२५।।
अक्षरस्य सुगन्धे तु गृहीतेऽत्र तु सौरभः ।
न्यक्कार एव दुर्गन्धरूपः स्यान्मायिकः खलु ।।२६।।
अक्षरस्याऽऽस्वादिते तु पायसे कामधेनुजे ।
मायामयानि दुग्धानि भवन्ति नीरसानि वै ।।२७।।
अक्षरस्य फलपुष्पाद्यलंकारे तु वीक्षिते ।
भुक्ते सत्पत्र पुष्पादि क्लेदवत् संभवन्ति वै ।।२८।।
तत्रत्यसम्पदां भोगे भोगाश्चात्र पुरीषवत् ।
तत्रत्यानां विभूतीनां वौक्षणेऽन्यत् कुरूपवत् ।।२९।।
कुष्ठवज्जायते पत्न्यस्तस्मान्न वीक्षणं वरम् ।
इदानीं वै भवतीनां प्रमन्ये तु विरागकृत् ।।4.113.३ ०।।
इह लोके निवासे तद् विघ्नकर्तृ भविष्यति ।
आयुषोऽन्ते दिव्यधाम द्रष्टव्यं नाऽधुना ह्यतः ।।३ १ ।।
इत्येवं बोधिता पत्न्यो नोचुर्नारायणं प्रति ।
किन्तु तीव्रतमा तासां दिदृक्षा संव्यजायत ।। ३२।।
कीदृश्यो वै वयं तत्र वर्ण्यमाना तु योगिभिः ।
भवामश्च हरिस्तत्र कीदृग् भवेत् प्रसुन्दरः ।। ३३।।
यावद् वयं न पश्यामस्तावच्छान्तिर्न वै मता ।
दिदृक्षायाश्च वै नित्यं प्राबल्यं संप्रवर्धते ।।३४।।
विचार्येत्थं दिनेऽन्यस्मिन् प्राहुः पद्मावतीं प्रियाम् ।
भगिनि श्रीहरेः पत्नि प्रिये मान्या मताऽसि वै ।।३५।।
भवत्या संप्रार्थनीयोऽस्मत्पतिः वल्लभः प्रभुः ।
धामदर्शनलाभार्थं त्वद्वचः पालयिष्यति ।।३६।।
श्रीनरनारायण उवाच-
सपत्नीभिस्तु सर्वाभिः प्रेरिता माधवीप्रिया ।
प्रार्थयामास तद्धामदर्शनार्थं स्ववल्लभम् ।।३७।।
श्रीपद्मावतीप्रिया प्रोवाच-
परमप्रिय नाथ त्वं दयालो निजयोषितः ।
दर्शयाऽक्षरधामाऽद्य सर्वासां त्वं कृपां कुरु ।।३८।।
पुनस्त्वमत्र चानेतुं समर्थोऽसि महाप्रभो ।
आनेतव्याः प्रियाः सर्वाः पूरयित्वा मनोरथान् ।।३९।।
अथाऽन्याः कोट्यर्बुदाब्जान्यपि चक्रुस्तथाऽर्थनाम् ।
प्रदर्शय प्रभो स्वामिन् धामाऽक्षरं परं तव ।।4.113.४० ।।
सर्वा वयं समिच्छामो वीक्षितुं धाम चाऽक्षरम् ।
सर्वसंकल्पितं स्वामिन् पूरयितुं स्ववाञ्च्छया ।।४ १ ।।
समर्थोऽसि पुनश्चाऽत्राऽऽनेतुं शक्तोऽसि सर्वथा ।
तस्माद्धामाक्षरं नैजं प्रदर्शय पते हरे ।।४२।।
श्रीनरनारायण उवाच-
इत्येवं बद्रिके सर्वा ब्रह्मप्रियाश्च योषितः ।
चक्रुः सम्प्रार्थनां तीव्रामशाम्यामनिवर्तिनीम् ।।४३ ।।
हरिर्विज्ञाय भावं च निजेच्छयोत्थितं तदा ।
विस्तारं चापि संहर्तुं स्वयं चेयेष तन्मिषात् ।।।४४।।
तथाऽस्त्वोमिति ताः प्राह भगवान् सर्वभावनः ।
ताश्च सर्वाः प्रसन्नाश्च जाता वीक्षितुमक्षरम् ।।४५।।
बद्रिके भगवान् सर्वाः प्राह सज्जा भवन्त्विति ।
कोट्यर्बुदाऽब्जपत्न्यस्ताः श्रुत्वाऽऽज्ञां स्वामिनः शुभाम् ।।४६।।
सवेषभूषाशृंगाराः स्वेष्टोपकरणान्विताः ।
अत्युत्साहभरा नार्यः सज्जास्तूर्णं तदाऽभवन् ।।४७।।
अमूल्याऽम्बरधारिण्यः केशवेषातिशोभनाः ।
स्वर्णरत्नमणीन्द्राढ्यहारभूषाद्यलंकृताः ।।४८ ।।
तेजोऽभिवर्धिता दिव्या युवत्यो नैकरंगिकाः ।
सज्जा द्रुतं वीक्षितुं चाऽक्षरं धामाऽभवन् मुदा ।।४९।।
मिथः प्रमोदवचनान्यब्रुवन् स्नेहसंभृताः ।
आल्यो नाथेन कृष्णेन सनाथा वै वयं सदा ।।4.113.५ ० ।।
कान्तेन कृपयाऽस्मभ्यो दर्शितं क्षितिमण्डलम् ।
ततः स्वर्गानि सर्वाणि पातालान्यप्यशेषतः ।।५१ ।।
दर्शितानीश्वराणां च गृहाणि विविधान्यपि ।
ईशसृष्टिः समस्ता नो दर्शिता परमात्मना ।।५२।।
वैकुण्ठं चापि गोलोको धामाऽव्याकृतमित्यपि ।
अमृतं श्रीपुरं श्रेष्ठं दर्शितानि दयालुना ।।५३ ।।
परं धामाऽक्षरं तस्य स्वामिनः सर्वतोऽधिकम् ।
द्रक्ष्यामोऽद्य महाभाग्यवत्यः स्मोऽत्र हरेः प्रियाः ।।५४।।
नाऽन्यासां तादृशं भाग्यं यदस्माकं प्रवर्तते ।
मूलं गृहं स्वामिनो नो द्रक्ष्यामः शाश्वतं पदम् ।।५५।।
श्रुतयोऽपि न पश्यन्ति न पश्यन्त्यपि योगिनः ।
ईश्वरा नैव पश्यन्ति तद् द्रक्ष्यामो हरेः पदम् ।।५६।।
यदत्र भगवानस्मदग्रे किरोति वर्णनम् ।
भवतीनां स्वरूपाणि सन्त्यक्षरे परे पदे ।।५७।।
दिव्यातिदिव्यदिव्यानि स्वरूपाणि स्वयोषिताम् ।
तानि रूपाणि चाऽस्माकं द्रक्ष्यामोऽद्य कृपालवात् ।।५८।।
दिव्यं स्वस्वामिनं चाऽऽल्यो द्रक्ष्यामस्तत्र संस्थितम् ।
असंख्यमुक्तजुष्टं चाऽसंख्याऽवतारधारिणम् ।।५९।।
अनन्तदिव्यवामाभिः सेवितं स्वामिनं हरिम् ।
अनादिश्रीकृष्णनारायणं द्रक्ष्याम उत्तमम् ।।4.113.६०।।
भोक्ष्यामो दिव्यभोगाँश्च वत्स्यामश्च यथेप्सितम् ।
रंस्यामहे महानन्दप्रदेन परमात्मना ।।६ १ ।।
उद्यानानि समस्तानि मन्दिराणि शुभानि च ।
ब्रह्महृदान् ब्रह्मनदीर्द्रक्ष्यामः परमात्मनः ।।६२।।
दिव्यसिंहासनादीनि दिव्यसंसद्स्थलानि च ।
दिव्यरासविहाराँश्च द्रक्ष्यामः कृपया हरेः ।। ६३।।
दिव्यसुधाः प्रपास्यामो वेत्स्यामो निजसम्पदः ।
अत्स्यामो मिष्टभोज्यानि श्रीहरेर्ब्रह्मधामनि ।।६४।।
इत्येवं वदमानास्ता ब्रह्मप्रिया हरिप्रियाः ।
कृष्णप्रियाश्च ताः पत्न्यः सज्जास्तदाऽभवन् द्रुतम् ।।६५।।
बद्रिकेऽनादिकृष्णश्रीनारायणः समुत्सुकः ।
सस्मार मुक्तवृन्दानि तदा स्वाऽक्षरधामतः ।।६६।।
आययुर्दिव्यरूपाश्च दिव्याऽसंख्यविमानगाः ।
दिव्यविमानिनश्चापि दिव्यविमानवाहकाः ।।६७।।
आययुस्ताः समानेतुं सृष्ट्यावरणवर्जिताः ।
कुंकुमवापिकाक्षेत्रोर्ध्वेऽम्बरे तेऽभवन् स्थिराः ।।६८।।
पुष्पाणां दिव्यगन्धानां चक्रुः कृष्णे प्रवर्षणम् ।
वादयामासुरत्यर्थं दिव्यवाद्यानि वै तदा ।।६९।।
देवाद्या दर्शनं कर्तुमाययुर्द्युनिवासिनः ।
कृष्णनारायणश्चाज्ञापयामास निजप्रियाः ।।4.113.७० ।।
मातरं पितरं चापि दासान् दासीश्च वै तदा ।
ऋषीन् महर्षीन् साधूँश्च साध्वीश्च सेवकाँस्तथा ।।७१।।
यमलानि सहस्थानि स्वापत्यानि तदाऽपि च ।
आरोढुं च विमानेषु दिव्येषु क्रमशः खलु ।।७२।।।
पत्न्यः सर्वा निषेदुश्च दास्यो दासाश्च बालकाः ।
सेवकाः पितरौ चापि निषेदुस्तेषु चाम्बरे ।।।७३।।
सत्यश्च साधवश्चापि परीहारपरायणाः ।
निषेदुस्ते विमानेषु मुक्तैः सह क्षणान्तरे ।।७४।।
शंखनादोऽभवत्तूर्णं ततः सञ्चारबोधकः ।
न कश्चिद्वा काचिदपि शिष्यते भूतले यथा ।।७५।।
कुंकुमवापिकाक्षेत्रं क्षणं शून्यमिवाऽभवत् ।
विमानेषु स्थिताः सर्वनारीनरादिकोटयः ।।७६।।
पुनर्वै शंखनादोऽभूत् कृष्णनारायणस्य ह ।
न कश्चिच्छिष्यते पृथ्व्यां धामजिगमिषार्थवान् ।।७७।।
अथ कृष्णश्चकाराऽपि शंखनादं तृतीयकम् ।
विमानानि तदा श्रीमल्लोमशेनाऽन्वितानि वै ।।७८ ।।
असञ्चरन् व्योममार्गे क्षणाददृश्यतां ययुः ।
विभिद्य सप्तनाकानि तथाऽष्टावरणान्यपि ।।७९।।
ईश्वराणां च धामान्युल्लंघ्याऽक्षरपदं ययुः ।
अक्षरस्य तदा सीम्नि शारदीपूर्णिमातिथौ ।।4.113.८० ।।
वेगवन्ति विमानानि मध्याह्ने त्वक्षरं ययुः ।
ब्रह्मह्रदे हरिः सर्वान् स्नापयित्वा विमानगान् ।।८१ ।।
नरान्नारीः समस्ताँश्च कृत्वा तद्योग्यविग्रहान् ।
दिव्यान् दिव्यस्वरूपाँश्च ब्रह्मदेहान् समस्तकान् ।।।८२।।
अजराऽमरसदृशरूपान्निजस्वरूपिणः ।
शाश्वतान् चैकतत्त्वाढ्यान् सच्चिदानन्दविग्रहान् ।।८३।।
धामयोग्यैश्वर्यसिद्धिगुणशक्तिसमन्वितान् ।
कृत्वाऽवस्थाप्य च पुनर्विमानेषु समस्तकान् ।।८४।।
ययावग्रे हरिः स्वामी नैकरूपधरः प्रभुः ।
सर्वान्नीत्वा सहैवाऽग्रे परमाक्षरधामनि ।।८९।।
अथापि बद्रिके दिव्याऽपारतेजोऽभिसम्पदम् ।
आक्षरं व्योम संवीक्ष्य क्षणं ते स्तब्धतां गताः ।।८६।।
तदा श्रीभगवाँस्तेषु मुक्तेष्वाविश्य सत्वरम् ।
शक्तीर्निजा धामयोग्याः प्रददौ तेभ्य आक्षरीः ।।८७।।
अथाश्चर्यं महत्प्राप्ताः किमेतत् पुरुषा वयम् ।
नारीत्वं विगतं सर्वमभवामो नरोत्तमाः ।।८८।।
पुरुषोत्तमरूपाः स्वस्वामिरूपाश्च सर्वथा ।
भवामोऽत्र किमेतद्वै महाश्चर्यमिदं त्विह ।।८९।।
ब्रह्मप्रियादिकमुक्ताः पप्रच्छुः परमेश्वरम् ।
किमत्र भगवान्नोऽस्ति पुंस्त्वं तत्कारणं वद ।।4.113.९०।।
श्रुत्वा तु बद्रिकेऽनादिकृष्णनारायणो हरिः ।
प्राह स्वीयांगकोटिभ्यः शृण्वन्तु मम चांऽगनाः ।।९१ ।।
माया या प्रकृतिः प्रोक्ता मम शक्तिस्वरूपिणी ।
सा राधा कृष्णपत्नी च मया स्वस्मात् प्रकाशिता ।।९२।।
मुक्तरूपाऽतिरूपाढ्या मुक्तगन्धातिगन्धिनी ।
मुक्तस्नैग्ध्यातिस्नैग्ध्याढ्या चाकचिक्यातिशोभना ।।९३।।
सुवाला पेशला तन्वी सर्वलावण्यशेवधिः ।
सर्वाकर्षणधर्माढ्या दर्शनीयाऽतिसुन्दरी ।।९४।।
विचित्रां चञ्चलां तां च वीक्ष्य विसृज्य मां च वै ।
मुक्ताः स्निग्धाः परब्रह्म मत्वा तां मत्स्वरूपिणीम् ।।९५।।
दध्युरानर्चुरेता च सिषेविरे महेश्वरीम् ।
नवधा राधिकायास्तु भक्तिं चक्रुर्विशेषतः ।।९६।।
विदन्तो मां तदाकृष्टास्तन्मयास्तेऽभवँस्तदा ।
अथाऽहं मत्प्रभावं तं ज्ञात्वा मुक्तवशंकरम् ।।९७।।
कृष्णं रूपं समास्थाय चाऽपाऽसरं तदाऽक्षरात् ।
गोलोकं वासयामास सदा तत्र स्थितोऽभवम् ।।९८।।
मूलरूपोऽक्षरेऽत्रैवाऽवसं मुक्ताभिसेवितः ।
तदाऽसंकल्पयं चाऽत्राक्षरे धाम्नि परे मम ।।९९।।
प्रकृतिर्वापि राधा वा माणिकी लक्ष्मीरित्यपि ।
ब्रह्मप्रियाश्च वा कृष्णप्रिया हरिप्रियाश्च वा ।। 4.113.१ ००।।
ईशान्यश्चेश्वराण्यो वा मुक्तान्यो भक्तयोषितः ।
मन्मूर्तेः शक्तयो वापि चाऽवतारस्त्रियोऽपि वा ।। १० १।।
आगच्छेयुर्मम धाम्न्यक्षरे परमधामनि ।
तदा नार्यो नरा भूत्वाऽनादिकृष्णस्वरूपिणः ।। १०२।।।
आविशेयुश्च तिष्ठेयुर्विहरेयुर्ममाऽक्षरे ।
नान्यथेति नियमो वै मया शाश्वतिकः कृतः ।। १० ३।।
प्रकाशं नैव नारीणां रूपमत्र प्रवर्तते ।
तदेवं भवतीनां वै मत्स्वरूपाणि चाऽक्षरे ।। १ ०४।।
प्रजातानि ततश्चात्र मदात्मकानि सर्वथा ।
सालोक्यसार्ष्टिसारूप्यसामीप्यैकत्ववन्ति च ।। १ ०५।।
अथापि बहुवारं ता राधाद्या मां समार्थयन् ।
अक्षरे निजरूपेण सेवितुं मां यथेष्टकम् ।। १ ०६।।
मया ततोऽतिसेवार्थं प्रतिपन्नं वदामि वः ।
यथा मुक्ता न पश्येयुर्नारीरूपं ममाऽक्षरे ।।१ ०७।।
तथा रहः प्रसेवन्तां मन्दिरे मम सर्वदा ।
यथेष्टरूपमाधाय पत्नीरूपाणि वै तथा ।। १ ०८।।
मुक्ता अपि प्रसेवन्तां चाऽप्रकाशं तथाविधाः ।
ततोऽक्षरे परे धाम्नि चात्र प्रकाशगोचराः ।। १ ०९।।
सर्वे नरस्वरूपा वै विचरन्ति मदात्मकाः ।
अगोचरास्तु ते सर्वे मदन्यागोचराः सदा ।।4.113.१ १०।।
मदंगनास्वरूपा मामुपासते मम प्रियाः ।
तथा भवन्तो मुक्ताश्च पुमांसः सन्ति गोचराः ।। ११ १।।
मदन्याऽगोचराः काले भवथ मत्प्रिया अपि ।
आकर्षणातिवेगेनोपासनाऽन्यत्र नो यथा ।। १ १२।।
भवेत् तथा निगूढाश्च प्रत्येकमात्रगोचराः ।
मद्योषितोऽन्वहं भूत्वा प्रसेवन्तां यथायथम् ।। ११ ३।।
सर्वे मुक्ताः प्रसेवन्ते गूढकामास्तथाहि माम् ।
यथेष्टरूपधर्तारः सेवन्ते मां स्वमन्दिरे ।। १ १४।।
लीलामेतां मम धाम्नि न जानन्त्यपरे मिथः ।
एवमपारसामर्थ्योऽनन्तलीलादिगोचरः ।। १ १५।।
अतिस्नेहेन चाऽऽश्लेषं ददामि ताभ्य उत्तमम् ।
इत्युक्त्वा बद्रिके चाग्रे विमानानि व्यनोदयत् ।। १ १६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरेर्निजपत्न्यादीनां परमाऽक्षरधामाऽवलोकनप्रार्थनां स्वीकृत्य सर्वाभिः सह कोटिविमानैः परमाक्षरधामाभिगमनं, तत्र मुक्तनरस्वरूपेषु सर्वासां परिवर्तनं, तज्जिज्ञासायाः समाधानं चेत्यादिनिरूपणनामा त्रयोदशाधिकशततमोऽध्यायः ।। ११३ ।।