सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १५/कुत्सस्याधिरथीयानि(प्रसेनानीः)

विकिस्रोतः तः
कुत्सस्याधिरथीयानि त्रीणि.
कुत्सस्याधिरथीयानि

ऋ. ९.९६.१

 
चतुर्विंशति षष्ठः, षष्ठः खण्डः ॥ ६ ॥ दशतिः ॥ ४॥
(५३३।१)
कुत्सस्याधिरथीयानि त्रीणि । त्रयाणां कुत्सस्त्रिष्टुप्सोमः ॥
होऽ४वा । उहवाऽ३ । होवा । प्रसेनानाइः । शूरोआऽ३ । ग्राइरथानाम् ।। गव्यन्नेताइ। हर्षताऽ३इ। अस्यसेना।। भद्रान्कृण्वान्। इन्द्रहाऽ३वान्त्सखिभ्याः॥ आसोमोवा । स्त्राऽ३रभ । सानिदत्ताइ । होऽ४वा । उहुवाऽ३ । होवाऽ६ ॥ हाउवा ॥
( दी० ९ । प० १९ । मा० ११ )१६(ध। १०३५)


(५३३।२)
औहोऽ३वाऽ२३४५ । प्रसेनानाइः। शूरोआऽ३ । ग्राइरथानाम् ॥ गव्यन्नेताइ। हर्षताऽ३इ । अस्यसेना ॥ भद्रान्कृण्वान् । इन्द्रहाऽ३ । वान्त्सखिभ्याः ।। औहोऽ३वाऽ२३४५ । आसोमोवा । स्त्राऽ३रभ । साऽ३४३ । नीऽ३दाऽ५त्ताऽ६५६इ ॥
(दी० ११ । प० १५ । मा० १० )१७( ङौ । १०३६)


(५३३।३)
औहोऽ३वाऽ३४५ । प्रसेनानाइः । शूरोआऽ३ । ग्राइरथानाम् ॥ गव्यन्नेताह । हर्षताऽ३इ । अस्यसेना ॥ भद्रान्कृन्वान् । इन्द्रहाऽ३ । वान्त्सखिभ्याः ॥ ओहोऽ३वाऽ३४५ । आसोमोवा । स्त्राऽ३रभ । साऽ३४३ । नीऽ३दाऽ५॥ ताऽ२३४५इ ॥
(दी० ११ । प० १६ । मा० १० ) १८( कौ । १०३७)

[सम्पाद्यताम्]

टिप्पणी

आ मन्द्रैरिन्द्र हरिभिरा नो विश्वासु हव्यं प्र सेनानीरिति वर्ग्गाः पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥सामविधानब्राह्मणम् १.४.२०

सङ्ग्रामं युयुत्समानस्योदकमभिजुहुयात् ........अथ हैनꣳ संनाहयेत् प्र सेनानीरिति वर्गेण ॥सामविधानब्राह्मणम् ३.६.२