पृष्ठम्:तिलकमञ्जरी.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। बन्धुरोभयस्कन्धशिखरः कनकपत्रभाचित्रमध्यभागभाना शरासनेन सनाथवामहस्तः सलीलमुयमानवालव्यजनकलापो मददर्पसर्पत्पदाति- निर्दयपादपातप्रवर्तिताकाण्डमेदिनीकम्पः प्रहर्षोत्तालवैतालिकवाततारत- रोदुष्यमाणजयध्वनिर्ध्वनद्विजयमङ्गलाभिधानतूर्यनिर्घोषवधिरिताखिल- ब्रह्मस्तम्बः पुरस्तात्सलीलचलितकरिघटारूढकिंकरपुरुषपातिवविरलधन- घातानामुत्पातनिर्यातपोरघोषोदारमतितारमारसन्तीनां ढक्कानां ध्वनितेन मुखरयन्निखिलान्यपि दिशं मुखानि शिखरविस्फुरत्पद्मरागदलस्थूलक- लशस्य दोलायमानावचूलमुक्ताफलदानश्चित्ररत्नखण्डखचितचामीकर- ण्डस्य पुरः प्रसर्पतः श्वेतातपाखण्डस्य पर्यन्तयायिनामनिलभरितरन्ध्र- वर्त्मव्यक्तरूपाणामिभवराहशरभशार्दूलमकरमत्स्यायाकारधारिणामनेक- पार्थिवसमरसंगृहीतानां चिहकानामपद्धताकरोचिषां चक्रबालेन जटिली- कृतदिगन्तरालो राजकुलानिरगच्छम् । अनुपदं च प्रणामपरितुष्टाभिर्विजयाशिषाभिनन्धमानो द्विजातिप- रिषद्भिर्विनयविरचिताअलिपुटानि प्रणम्यमानः पौरजनताभिरुत्सृष्टलाज- वृष्टिभिरुद्धष्यमाणमनोरथसिद्धिनगरवृद्धाभिः प्रीतिनिर्भरदृष्टिपातकुवल- यितदिग्वलयाभिरवलोक्यमानो नागरिकाभिनगरानिरगमम् । क्रमेण च शरत्समयपरिचयपश्चितशोभामाभोगिनीम् , उदारकल- मकेदारपरिमलामोदितवनानिलाम्, उन्मदकुररकादम्बसारसारावमुख- रितसरस्तीरनीराम, कीरचक्षुसंपुटच्युतार्घजग्धप्रियङ्गमञ्जरीपिञ्जरजर- दुमतलाम्, अक्षुद्रपादपालगनितैरनवरतवेलकर्णपल्लवतरलितेन प्रतिवे- लमुद्दीन्यमानेन निलीयमानेन चष्टंकारिणा मधुकरमण्डलेन पीयमा- नोहामदाननिमेरैरप्रमत्तरक्षणपदातिवार्यमाणासंस्तुतजनप्रत्यासत्तिमिः पर्यन्तरचिततृणकुटीरकेण प्रतिक्षणमाधोरणगणेन क्रियमाणविविधो-