लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ००६

विकिस्रोतः तः
← अध्यायः ५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →

श्रीबद्रीश्वर्युवाच-
अनादिश्रीकृष्णनारायणनारायणप्रभो ।
नरनारायणविष्णो बद्रीनाथसुतापस ।। १ ।।
सुशीलाख्यो भूसुरो वै कदा कुत्राऽभवत्पुरा ।
पितृतृप्तिर्बदरेण कृता येन दिवम्प्रदा ।। २ ।।
श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि सुशीलस्य कथानकम् ।
विहाराख्ये शुभे देशे पुलहाश्रमसन्निधौ ।। ३ ।।
गण्डक्याः सुभगे तीरे मौक्तिकाहारपत्तने ।
सुशीलोऽभूद्विप्रवर्यः कुटुम्बिबहुलः खलु ।। ४ ।।
पिता तस्याऽभवन्नाम्ना श्रीशीलः कर्मठः सदा ।
विद्वान् लोभाभिभूतश्च व्ययभीतिपरायणः ।। ५ ।।
कुटुम्बार्थे व्ययहीनो लब्धद्रव्यादिसञ्चयः ।
उत्सवादिविहीनश्च व्रतोत्साहादिवर्जितः ।। ६ ।।
महीमानादिसम्माने कदर्य इव निर्व्ययः ।
वेषे याने भोजनेऽपि रूक्ष इव वनेचरः ।। ७ ।।
देवपूजादिकार्येषु भिक्षोपलब्धनिर्वहः ।
आतिथ्यादिविहीनश्च शुष्कयज्ञपरायणः ।। ८ ।।
अपत्यानां दुग्धपाने पिष्टमण्डप्रदायकः ।
शाकादिशून्यमध्याह्नभोजनो घृतवर्जितम् ।। ९ ।।
कृशरान्नं भुनक्त्येव भोजयत्यपि योषितम् ।
पुत्रादीन् शाकमात्रं च भोजयत्यपि तद्विधम् ।। 4.6.१ ०।।
दानादिवर्जितो विप्रः श्रीशीलः कर्मठः पिता ।
नदीतीरे स्वयं गत्वा स्नात्वा नीत्वा फलादिकम् ।। १ १।।
समिधश्च स्वयं समाहृत्याग्नौ प्रजुहोति वै ।
तत्रापि बिन्दुमात्रं वै घृतं ददाति नाऽधिकम् ।। १ २।।
कौपीनं चाऽञ्चलं धत्ते नाधिकं वस्त्रमित्यपि ।
यज्ञपट्टेन वै स्कन्धे निर्वहत्येव भूसुरः ।। १ ३।।
गृहस्थोऽपि लोभवशात्तापसो हि मुनिर्यथा ।
तथाऽयं वर्तते गेहे पर्युषितेन वै क्वचित् ।। १४।।
भाजीं लब्ध्वाऽथवा कन्दान् मूलानि वा दलानि वा ।
वनेऽरण्येऽप्यटव्यां वाऽऽनयत्ययं भुनक्ति तत् ।। १५।।
एवंविधस्य विप्रस्य पुत्रा दशाऽभवन् शनैः ।
पुत्र्यः सप्ताऽभवँश्चापि ब्राह्मणधर्मशोभिताः ।। १६।।
ज्येष्ठः सुशीलनामाऽस्य सुतो वेदादिविद्यया ।
ख्यातिमाप समस्तेषु पार्श्वग्रामेषु कर्मठः ।। १७।।
उदारो दानशीलश्च धर्मोत्सवपरायणः ।
भोजने छादने भोग्ये कुटुम्बपरिपोषकः ।। १८।।
राजमानादिपात्रं च प्रजासम्मानसत्कृतः ।
यज्ञकार्यादिनिष्णातो वैष्णवो भक्तराड् यथा ।। १९।।
सतां सेवाव्रतवाँश्च साध्वीसेवापरायणः ।
आतिथ्यधर्मो गोसेवाग्रामसेवापरायणः ।।4.6.२० ।।
पाठको बालकानां च कथाकारश्च सर्वदा ।
एवंविधं निजं पुत्रं लोमधर्मविवर्जितम् ।।२१।।
व्ययशीलं पिता वीक्ष्य गृहाद्दूरं चकार तम् ।
तेनाऽयं स्वं गृहं त्यक्त्वा ययौ तु पत्तनान्तरम् ।।२२।।
दाराभाग्याऽभिधं राज्यं तद्राज्ञा तु कृतादरः ।
उवास स्वस्थचित्तोऽयं प्रजाराजादिमानितः ।।२३।।
दाराभाग्येश्वरो राजा नाम्ना दारेश्वराभिधः ।
सौधं वासाय विदुषे सुशीलायाऽर्पणं ददौ ।।२४।।
भूमिं क्षेत्रं वाटिकां च महोद्यानं च वाहनम् ।
अन्नं निर्वाहमात्रं च ददौ दानेऽर्कपर्वणि ।।२५।।
विप्रोऽयं प्राप्य सन्मानं प्रसन्नः शुभसम्पदा ।
शान्तचित्तो हरिं भेजे श्रीपतिं निजवल्लभम् ।।२६।।
जीविकां निजयात्राया योग्यां लब्ध्वा तुतोष ह ।
उपाधिं सर्वथोपार्ज्यगोचरं स विहाय वै ।।२७।।
लक्ष्मीनारायणसंहितायाः कथां तु प्रत्यहम् ।
नगरे वाचयामास प्रजासंघसभास्थले ।।२८।।
नृपो दारेश्वरश्चापि प्रत्यहं तूपतिष्ठति ।
आख्यानानि विविधानि भक्तभक्तिपराणि हि ।।२९।।
अनादिश्रीकृष्णनारायणाख्यानानि यान्यपि ।
श्रुत्वा श्रुत्वा मोदते वै वैष्णवास्योद्गतानि च ।।4.6.३०।।
कथान्ते कारयत्येव सवाद्योत्सवकीर्तनम् ।
हरे कृष्ण बालकृष्ण श्रीपते पुरुषोत्तम ।।३ १।।
अनादिश्रीकृष्णणनारायण श्रीबदरीश्वर ।
एवं कृत्वा कीर्तनं च नैवेद्यं विनिवेद्य च ।।।३२।।
प्रसादं संविभज्याऽथ गृहं यान्ति सभाजनाः ।
विप्रः सायं हरेर्भक्तिं प्रातर्भक्तिं करोति च ।।३३।।
मध्याह्नभक्तिं कृत्वाऽथ भोजनं स करोति वै ।
सायं प्रातर्जनास्तस्य समागमार्थमुत्सुकाः ।।३४।।
आयान्ति श्रेयसे नित्यं मुमुक्षवः सुमानसाः ।
तेभ्यो मन्त्रं विप्रवर्यो ददाति मोक्षदायकम् ।।३५।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
बहवो वैष्णवाश्चैवं सम्पन्नास्तत्र पत्तने ।।३६।।
नराणां योषितां चापि भक्तिसंघा सुधार्मिकाः ।
अभवन् भक्तिकर्माणो भजन्ति श्रीप्रभापतिम् ।।३७।।
पत्तने तु यथा तद्वद् ग्रामेषु चेतरेष्वपि ।
भक्तसंघा अभवँश्च कृष्णनारायणाश्रिताः ।।३८।।
अथ भक्तोत्तमं श्रेष्ठं विप्रं भागवतं शुभम् ।
योग्यं मत्वाऽस्मै स्वपुत्रीं राजा कुन्दनिकां ददौ ।।३९।।
सुशीलोऽयं भाग्यवाँश्च लब्ध्वा कुन्दनिकां सतीम् ।
पत्नीं नृपसुतां दिव्यां मुमुदे कृपया हरेः ।।4.6.४०।।
सापि लक्ष्मीसमा धर्मवती भक्तिमती सती ।
भेजेऽनादिकृष्णनारायणार्यं वल्लभं प्रभुम् ।।४१।।
उदारा हि महर्द्धिसंभृता दानेश्वरी प्रिया ।
कृष्णप्रिया सदा कृष्णभक्तिपरा व्यजायत ।।४२।।
जामाता राजभवने शोभते भाग्यवर्धितः ।
कीर्तिश्चाऽस्याऽभवद् व्याप्ताऽभितः शुश्राव तां पिता ।।४३।।
पित्रा प्रहिताः पुत्राश्च पुत्र्यश्चापि सहोदरम् ।
ज्येष्ठं द्रष्टुं चाययुश्च महोत्साहसमन्विताः ।।४४।।
माताऽपि गालवीदेवी पुत्रं द्रष्टुमुपाययौ ।
पिता तस्थौ गृहे त्वेकस्त्यागदोषातिलज्जितः ।।४५।।
धनलोभपरश्चापि गृहे धनस्य रक्षकः ।
दैवयोगेन विप्रस्य श्रीशीलस्याऽभवज्ज्वरः ।।४६।।
आयुःक्षयेन मरणं प्राप्तो गृहेऽतिनिर्जने ।
ज्ञातिजनैः शनैर्ज्ञाते मरणे तत्क्रिया कृता ।।४७।।
पापिनश्च कदर्यस्य लुब्धस्य बदरीश्वरि ।
मृतिः शून्या जायते वै बहुष्वपि कुटुम्बिषु ।।४८।।
लोभदोषेण विप्रोऽसौ वासनाद्रिप्रवासितः ।
प्रेततां लब्धवाँस्तत्र गृहे भूतशरीरधृक् ।।४९।।
गृहपृध्वीगते द्रव्ये कृतवासो हि तिष्ठति ।
नान्यः प्रवेशं लभते प्रविष्टं पीडयत्ययम् ।।4.6.५०।।
ख्यातोऽभवत् स भूतोऽसौ प्रेतचेष्टापरायणः ।
अदत्तदानो लभते नैवाऽन्नं भोजनं जलम् ।।।५१।।
क्षुधायुक्तः क्वचिद् रौति रात्र्यर्धोत्तरमेव सः ।
क्वचिद्धसति सस्फोटं गर्जयन्नम्बरं बहु ।।५२।।
क्वचिद् विप्रात्मको भूत्वा ग्राममध्येऽर्धरात्रिके ।
समये च तदूर्ध्वे च विहरत्यतिदुःखितः ।।५३।।
श्रीशीलस्य गतिस्त्वेवं जाता बद्रीप्रभेश्वरि ।
दारभाम्येऽपि पुत्राश्च पुत्र्यश्च पत्निका तथा ।।५४।।
राजसम्मानमासाद्य सुखं लब्ध्वा महत्तरम् ।
तत्रैव ज्येष्ठभ्रातुश्चाऽऽज्ञया न्यूषुर्निरन्तरम् ।।५५।।
देवकन्यासमा रूपे युवत्यो विप्रकन्यकाः ।
राजकुटुम्बे भाग्येन विवाहितास्ततोऽभवन् ।।५६।।
माताऽभवत् सुसुखिनी सुता राज्ञ्योऽभवन्नपि ।
पुत्राश्चापि ख्यातिमन्तो नृपकुटुम्बयोगिनः ।।५७।।
नृपकुटुम्बिकन्यानां पतयस्ते ततोऽभवन् ।
भक्तिः कृता हि फलति सतां सेवा फलत्यपि ।।२८।।
दानं पुण्यं चोपकारश्चाशीर्वादाः फलन्त्यपि ।
ज्येष्ठभ्रातुः पुण्ययोगैः सर्वे राजकुटुम्बवत् ।।।९९।।
जातं याने भोजने च दारेषु ऋद्धिवैभवे ।
यत्र लक्ष्मीः प्रसन्नाऽस्ति यत्र नारायणोऽपि च ।।4.6.६०।।
यत्र देवाः प्रतुष्टाश्च तत्र न्यूनं न विद्यते ।
कृतं कालेन फलति नाऽकृतं त्वाप्यते क्वचित्। ।।६१।।
बद्रीप्रभे सुशीलोऽयं प्रजेश्वर इवाऽभवत् ।
मम भक्त्या कथया च कीर्तनैर्दानपूजनैः ।।६२।।
अथैकदा पिता प्रेतो निजपत्न्यामुपाययौ ।
आवेशं बहुलं प्राप्य रुरोद बहुधा ततः ।।६३।।
भजनेन कृतः सर्वैः स्फुटाक्षरश्च को भवान् ।
जगादाऽहं पिता नाम्ना श्रीशीलोऽस्मि मृतोऽस्मि च ।।।६४।।
अथ शोकं गताः सर्वे रुरुदुश्चापि लौकिकम् ।
क्रियां चक्रुस्ततो राज्ञ आज्ञामासाद्य ते जनाः ।।६५।।
ययौ लौकिककार्यार्थं श्राद्धार्थं तन्मृतिस्थलम् ।
पत्तनं मौक्तिकहारं चक्रुः श्राद्धादि कर्म च ।।६६।।
उद्धारार्थं पितुस्तत्र बहुदानानि ते ददुः ।
पुत्राश्चक्रुर्हि बहुधोद्धारपुण्यानि तत्र ह ।।६७।।
गण्डक्या चाऽस्थिविन्यासं चक्रुस्ते वार्षिकं विधिम् ।
यद्धनं त्वर्जितं पित्रा निहितं भूतलेऽपि च ।।६८।।
सर्वं दानेषु पुत्रास्ते ददुः कदर्यदूषितम् ।
तथापि प्रेतविप्रस्य सद्गतिर्न व्यजायत ।।६९।।
कृते यज्ञेऽपि बद्रीशि न मुक्तिर्वासनावतः ।
किं पुनर्दानकर्मादि मोक्षदं वासनावतः ।।4.6.७०।।
न मोक्षं समवापाऽसौ पुनः पत्न्यामुपाययौ ।
सकम्पं च महाक्रोशं कृत्वोवाच निजात्मजान् ।।७१।।
न मे मुक्तिः प्रजाता वै वासना बाधते हि माम् ।
भोजनस्य सुवेषादेर्लोभस्य च धनस्य च ।।७२।।
वासनापरिहारार्थं यान्तु बदरिकाश्रमम् ।
नरनारायणावासं महर्षिगणसेवितम् ।।७३।।
श्राद्धं मदर्थं तत्रैव कुर्वन्तु बदरीतले ।
दिव्यं च बदरं मह्यं भोजनार्थं ददत्वपि ।।७४।।
नारायणार्पितं वारि फलं च बदरं महत् ।
तथा च वल्कलं वस्त्रं कम्बलं वा यथोचितम् ।।७५।।
बदरीफलकृद्धारं बदरीरसमित्यपि ।
श्राद्धे मह्यं ददत्वेव तृप्तिर्मे शाश्वती तथा ।।७६।।
भविष्यति क्षुधानाशस्तृषानाशो भविष्यति ।
वासना बद्रीशनारायणाग्रे मे विनंक्ष्यति ।।७७।।
पत्न्यामाविश्य बदरीनाथं त्वायामि वै सह ।
कुर्वन्तु मम कार्याणि दिव्ये बदरिकाऽऽश्रमे ।।७८।।
एकस्यपि बदरस्य दानेन तर्पणं मम ।
मोक्षदं शाश्वततृप्तिप्रदं स्यान्मे न संशयः ।।७९।।
अन्यथा मे न वै मोक्षः कोटिदानैरपीह वै ।
कदर्याणां न वै मोक्षस्तीर्थायुते कृतेऽपि हि ।।4.6.८०।।
अथ ते प्रययुः सर्वे पद्भ्यां बदरिकाश्रमम् ।
संस्नुस्तत्राऽऽदिगंगाया नेमुर्नरं नरायणम् ।।८१।।
बद्रीप्रभां प्रणेमुश्च साध्वर्षीनार्चयँस्तथा ।
सर्वतीर्थानि कृत्वैव श्राद्धं चक्रुः समाहिताः ।।८२।।
ज्येष्ठपुत्रो ददौ पिण्डान् बदराख्यं फलं तथा ।
गांगेयं सलिलं नारायणपादप्रसादजम् ।।८३।।
ददौ सुवर्णदानं च विप्राय वल्कलं तथा ।
गोदानं च तथा दानोत्तमानि भूमिदानकम् ।।८४।।
गोरसादिप्रदानानि मिष्टान्नानि घृतानि च ।
अम्बराणि विचित्राणि ददुर्नृपोचितानि हि ।।८५।।
जग्राह श्रीशीलविप्रः साक्षादागत्य वै करे ।
बदरं च जलं रम्यं वल्कलं शर्करां तथा ।।८६।।
अन्यत् सर्वं विशिष्टं च प्राप्य तृप्तिं जगाम सः ।
पत्न्यां प्रविश्य तत्रैव प्राह तृप्तोऽस्मि सर्वथा ।।८७।।
इदानीं शाश्वता लोका मदर्थं समुपस्थिताः ।
प्रेतता मे गता त्वत्र ह्येष यामि परं पदम् ।।८८।।
वासना मे तदा नष्टा माया नष्टा दुरन्तगा ।
पापानि मम नष्टानि पुण्यं जातं च मुक्तिकृत् ।।८९।।
विमानं च मदर्थं वै समागतं सुतैजसम् ।
नरनारायणकृष्णपाषदैः शोभनं परम् ।।4.6.९०।।
सर्वे भवन्तु सुखिनः पुत्राः पुत्र्यश्च मे प्रिया ।
एकेन बदरेणाऽहं शाश्वतीं तृप्तिमाप्तवान् ।।९ १ ।।
एष यामि स्वस्ति वोऽस्तु तारितोऽहं व्रजामि वै ।
इत्युक्त्वा दिव्यसदने त्वधिरुह्य विमानके ।।९२।।
पार्षदैर्विष्णुभक्तैश्च सन्मानितो हि पश्यताम् ।
सर्वेषां निजपुत्राणां पुत्रीणां योषितस्तथा ।।९३।।
महर्षीणां पश्यतां च विमानेनाऽक्षरं ययौ ।
महाश्चर्यं गताः सर्वे नरनारायणाश्रमे ।।९४।।
पितृमुक्तिं विधायैव न्यवर्तन्त सुतादयः ।
पूजयित्वा बदरीशीं बद्रीनाथं नरायणम् ।।९५।।
नरं सम्पूज्य बदरं सबीजं प्राप्य ते ततः ।
अवतीर्य हिमाद्रेस्तु निजालयं ययुर्द्रुतम् ।।९६।।
मौक्तिकाहारमासाद्य दत्वा दानं गृहस्य च ।
सर्वेषामुपकरणादीनां दानं प्रदाय च ।।९७।।
आययुस्ते सुखस्थानं दाराभाग्याख्यपत्तनम् ।
श्वशुरं नृपतिं दारेश्वरं तथा प्रजाजनान् ।।९८।।
भक्तान् भक्तानिकाश्चापि प्राहुर्वृत्तान्तमेव ते ।
आश्चर्यं परमं प्राप्ता बदरीशप्रतापजम् ।।९९।।
एवं बदरदानस्य माहात्म्यं मोक्षदं परम् ।
कथितं ते बद्रिके वै सर्वापद्विनिवारकम् ।। 4.6.१ ००।।
ततः श्रुत्वा जनसंघा दाराभाग्याभिधो नृपः ।
प्रजाश्च संघशो भूत्वा कुटुम्बसहिता ययुः ।। १०१ ।।
बदर्याः खलु यात्रार्थं नरनारायणाश्रमम् ।
सर्वसामग्रिकायुक्ता भक्तिलग्नैकमानसाः ।। १ ०२।।
भजन्तः श्रीबद्रिकेशं ध्यायन्तो बदरीश्वरीम् ।
प्रापुर्हिमालये बद्रीप्रभे बदरिकाश्रमम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीशीलस्य पुत्राणां दाराभाग्यपत्तने राजसम्मानं श्रीशीलस्य मरणं प्रेतता तदुद्धाराय बद्रिकाश्रमे श्राद्धे बदरादिदानं प्रेतमोक्षणं चेत्यादिनिरूपणनामा षष्ठोऽध्यायः ।। ६ ।।