पृष्ठम्:तिलकमञ्जरी.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ३६७ प्रत्यारामं प्रतिनायकं प्रतिप्रमदं च यन्नावलोक्यते तदपि किं इष्टमिति शिष्टैर्व्यपदिश्यते । निशम्य चेदं सा पुनः प्रावोचत्–'कुमार, नैतदुष्करमेव मयि दृश्यते' इति ब्रुवाणा गात्रसंघट्टरणिततारकाणमणिघण्टैश्चण्डडिण्डिमारावडमरितविपक्षवारणैः संनिकृष्टधृष्टाधोरणगणप्राञ्जनप्राञ्जलीकृतमसरैः पृष्ठानुलमभमोत्साहकतिपयासपदातिभिः स्कन्धासीनभयविहस्तैकैकहस्तिपकैश्चिरावस्थानदुर्गस्थमार्गलोकावलोकितैः परिचिताङ्कुशप्रचारैरपि निरङ्कुशप्रचारैः प्रकटकुम्भकूटधारिभिरप्यनासुतघरैः प्रमिनकर्णफरटैरपि विराजिश्रवणशक्षैः सुवर्णदन्तकोशोपशोभितैरपि नीरदप्रतिमैालतां वहद्भिरप्यनुदिनं न व्यालानां स्थितिमनुभवद्भिः सरागैरपि निरामयाजैः स्तम्भमुक्तैः सदर्पमापतद्विश्व प्रकामपीवरकरैः करेणुभिर्दुरवतारेण निरन्तरप्रचारप्राणिशतसंकुलेनापि पञ्चजनाधिष्ठितेनाश्चाक्रान्तेनाप्यायतेन गत्वा राजमार्गेण प्रविश्य राजकुलाभ्यन्तरमतिक्रम्य विस्तारवत्यपि नितान्तदुःप्रवेशान्यनेककक्षान्तराणि तोरणोपान्तपुजितनिरन्तरोत्खातशत्रख्यातवंशान्तर्वशिकनरं कन्यान्तःपुरमगच्छत् ।

 प्रविष्टा च तत्र सर्वत्राभिरामं वाममार्गे तिलकमञ्जरीमन्दिरस निरन्तरानुलममनतितुझ्याकारपरिगतमुदप्रशिखरानेकसुन्दरप्रासादमासाथ निजनिवासभवनं विमानादवातरत् ।

 प्रविश्य च निरन्तरन्यासशालिना मणिशिलातलसंक्रमेण क्रमेणाधिरूढमानीय मामुपरितलकमलकुटिमतलस्योत्तुङ्गकनकस्तम्भराजीविराजिनः प्रकाशविपुलवतानकाशस्य शयनचित्रशालिकाणरजमण्डपसापखालहस्तसंचरितेनाचिरपौतेन शुचिना समन्तादुतरच्छदपटेनाच्छादिते मृदावपि तापनीये महति पट्टपर्यडे न्यवेशयत् ।