महाभारतम्-06-भीष्मपर्व-120

विकिस्रोतः तः
← भीष्मपर्व-119 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-120
वेदव्यासः
भीष्मपर्व-121 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

कुरुपाण्डवैरन्यै राजभिश्च भीष्माभिवादनम् ।। 1 ।। अर्जुनेन भीष्माय बाणमयोपधानसमर्पणम् ।। 2 ।।

धृतराष्ट्र उवाच। 6-120-1x
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय ।
बलिना देवकल्पेन कौमारब्रह्मचारिणा ।।
6-120-1a
6-120-1b
तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः ।
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ।।
6-120-2a
6-120-2b
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।
अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ।।
6-120-3a
6-120-3b
अश्मसारमयं नूनं हृदयं मम सञ्जय ।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ।।
6-120-4a
6-120-4b
यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता ।
चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ।।
6-120-5a
6-120-5b
पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे।
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ।।
6-120-6a
6-120-6b
स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना । 6-120-7a
सञ्जय उवाच। 6-120-7x
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ।। 6-120-7b
पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः ।
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ।।
6-120-8a
6-120-8b
भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः ।
हाहेति तुमुलः शब्दो भूतानां समपद्यत ।।
6-120-9a
6-120-9b
सीमावृक्षे निपतिते कुरूणां समितिंजये ।
सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ।।
6-120-10a
6-120-10b
भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ।
कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते ।।
6-120-11a
6-120-11b
खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः ।
ररास पृथिवी चैव भीष्मे शान्तनवे हते ।।
6-120-12a
6-120-12b
अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ।।
6-120-13a
6-120-13b
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा ।
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ।।
6-120-14a
6-120-14b
इति स्म शरतल्पस्थं भरतानां पितामहम् ।
ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ।।
6-120-15a
6-120-15b
हते शान्तनवे भीष्मे भरतानां पितामहे ।
न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ।।
6-120-16a
6-120-16b
विषण्णवदनाश्चासन्हतश्रीकाश्च भारत ।
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ।।
6-120-17a
6-120-17b
पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।
सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ।।
6-120-18a
6-120-18b
हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ ।
अपश्याम महाराज भीमसेनं महाबलम् ।।
6-120-19a
6-120-19b
विक्रीडमानं कौन्तेयं हर्षेण महता युतम्।
निहत्य तरसा शत्रुं महाबलसमन्वितम् ।।
6-120-20a
6-120-20b
संमोहश्चापि तुमुलः कुरूणामभवत्ततः ।
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ।।
6-120-21a
6-120-21b
तथा निपातिते भीष्मे कौरवाणां पितामहे ।
हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ।।
6-120-22a
6-120-22b
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव।
उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ।।
6-120-23a
6-120-23b
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः।
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ।।
6-120-24a
6-120-24b
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्।
दुःशासनं महाराज किमयं वक्ष्यतीति च ।।
6-120-25a
6-120-25b
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।
द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ।।
6-120-26a
6-120-26b
स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् ।
निवारयामास तदा स्वान्यनीकानि मारिष ।।
6-120-27a
6-120-27b
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्।
रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ।।
6-120-28a
6-120-28b
निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः ।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ।।
6-120-29a
6-120-29b
व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ।।
6-120-30a
6-120-30b
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ।।
6-120-31a
6-120-31b
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ।।
6-120-32a
6-120-32b
स्वागतं वो महाभागाः स्वागतं वो महारथाः ।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ।।
6-120-33a
6-120-33b
अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् ।
`परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत।'
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ।।
6-120-34a
6-120-34b
6-120-34c
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ।।
6-120-35a
6-120-35b
अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् ।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ।।
6-120-36a
6-120-36b
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ।।
6-120-37a
6-120-37b
धनञ्जय महाबाहो शिरो मे तात लम्बते।
दीयतामुपधानं वै यद्युक्तमिह मन्यसे ।।
6-120-38a
6-120-38b
सञ्जय उवाच। 6-120-39x
समारोप्य महच्चापमभिवाद्य पितामहम्।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।।
6-120-39a
6-120-39b
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर।
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ।।
6-120-40a
6-120-40b
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते ।
`दीयतामुपधानं मे यद्युक्तमिह मन्यसे'
उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ।।
6-120-41a
6-120-41b
6-120-41c
वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे ।
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ।।
6-120-42a
6-120-42b
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः ।
फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परंजयः ।।
6-120-43a
6-120-43b
गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः ।
अनुमान्य महात्मानं भरतानां महारथम् ।।
6-120-44a
6-120-44b
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ।
अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ।।
6-120-45a
6-120-45b
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ।
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ।।
6-120-46a
6-120-46b
प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ।।
6-120-47a
6-120-47b
शयनस्यानुरूपं मे पाण्डवोपहितं त्वया।
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ।।
6-120-48a
6-120-48b
एवमेव महाबाहो धर्मेषु परितिष्ठता।
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ।।
6-120-49a
6-120-49b
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ।।
6-120-50a
6-120-50b
पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् ।
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ।।
6-120-51a
6-120-51b
ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः।
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ।।
6-120-52a
6-120-52b
नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा ।
रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ।।
6-120-53a
6-120-53b
परिखाः खन्यतामत्र ममावसदने नृपाः ।
उपासिष्ये विवस्वन्तमेवं शरशताचितः ।
उपारमध्वं संग्रामाद्वैरमुत्सृज्य पार्थिवाः ।।
6-120-54a
6-120-54b
6-120-54c
स?ञ्जय उवाच। 6-120-55x
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः।
सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ।।
6-120-55a
6-120-55b
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव ।
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ।।
6-120-56a
6-120-56b
एवंगते मयेदानीं वैद्यैः कार्यमिहास्ति किम्।
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ।।
6-120-57a
6-120-57b
नैष धर्मो महीपालाः शरतल्पगतस्य मे ।
एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ।।
6-120-58a
6-120-58b
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव।
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ।।
6-120-59a
6-120-59b
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ।।
6-120-60a
6-120-60b
उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः ।
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ।।
6-120-61a
6-120-61b
उपगम्य महात्मानं शयानं शयने शुभे ।। 6-120-62a
तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम्।
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ।।
6-120-63a
6-120-63b
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ।।
6-120-64a
6-120-64b
निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् ।
भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ।।
6-120-65a
6-120-65b
उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् ।
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ।।
6-120-66a
6-120-66b
अवध्यो मानुषैरेव सत्यसन्धो महारथः ।
अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ।।
6-120-67a
6-120-67b
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष । 6-120-68a
सञ्जय उवाच। 6-120-68x
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ।। 6-120-68b
तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।
त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ।।
6-120-69a
6-120-69b
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः ।।
6-120-70a
6-120-70b
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः। 6-120-71a
सञ्जय उवाच। 6-120-71x
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः।
तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ।।
6-120-71b
6-120-71c
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसे विंशत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

6-120-11 पर्यवर्तन्त परिवृतवन्तः ।। 6-120-17 व्रीडिताः व्रीडावन्तः । व्रीडा चान्यतः। ह्रीश्चाकार्यकरणात् ।। 6-120-29 पारम्पर्येण क्रमेण।। 6-120-34 उपधानं उपबर्हम् ।। 6-120-38 इह वीरशय्यायाम् ।। 6-120-43 व्यवसायमुचितोद्योगम् ।। 6-120-45 अन्वगृह्णात् अवतष्टम्भे ।। 6-120-48 उपहितं उपधानीयं दत्तम्।। 6-120-53 विमोक्ष्येऽहं तदा प्राणान् इति झo पाठः ।। 6-120-54 ममावसदने मन्निवासस्थाने ।। 6-120-68 चक्षुषा हन्तीति तथा तम्। दृष्टिमात्रेण हननक्षमम् ।।

भीष्मपर्व-119 पुटाग्रे अल्लिखितम्। भीष्मपर्व-121