पृष्ठम्:तिलकमञ्जरी.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ काव्यमाला। प्रणयिहृदयाहादकारिणा सर्वत्रैवोपलक्षितपक्षपातेन तवामुना शीलेन तरलतां नीतो न शक्नोमि निभृतः स्थातुम् । येनात्मनो महिमानमिच्छता पुरुषेण पूर्वे वयस्यपूर्वा सर्वापि परयोषित्प्रायशो न बहु भाषणीया । विशेषतः प्रथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी रूपलावण्यादिगुणगणावासस्त्वादशी' इति विद्वानपि भवत्याः प्रवृत्तोऽहं प्रश्नकर्मणि । कथय का त्वम् । कस्मिन्नखिलदोषमुक्ते मुक्तेव देवारण्यवंशे वंशे समुत्पन्नासि । कानि ते हृदयदाहज्वरहराणि दिव्यमत्रपटानीव नामाक्षराणि क्षरन्ति कर्णयोरमृतम् ।केनात्र तव वपुषि देवानवसना गर्हणानपेक्षेण विनिक्षिप्तान्यमूनि वृक्षाणां वल्कलानि । किं फलमतिशयखादुरसमभिलप्य विरसान्यनुदिवसमश्नासि वन्यनुमफलानि । केन हेतुना विहाय विख्यातानि वैखानसाश्रमपदानि निर्जनारण्यवासिनी शून्यमेतज्जिनायतनमधिवससि । किं चैष विषमसायकैकाधिवासे नवे वयसि विषयोपभोगविद्वेषः । किं चानुवेलस्पन्दिताधरपुटा प्रष्टुकामेव वार्तामिष्टजनस्य कस्यचित्प्रीतिविशदैदृष्टिविक्षेपैः सरभसमवेक्षसे दक्षिणां ककुभम् । कांचिदास्ते कश्चिदिह गोत्रजः सुहृद्धा हृदयभूतः' इति वदत्येव मयि सहसैव तस्याः प्रकम्पितपयोधरो विधुतगलसरणिरतिपरिस्फुटस्फुरितनासापुटः प्रयनरुद्धोऽपि विषवेगवब्यापदङ्गमतिकान्तवैभवस्मरणयोनिमन्युरनवनमिव प्रदोषहिमजलेन मुकुलीभूतमीक्षणयुगमपूर्यत विसारिणा बाष्पनीरेण । तत्क्षणनिबद्धरागायाश्च लोचनापासरितः पूर्वहरितइव तरुणारुणज्योतिराहतायास्तारकासमूहः पपाताजनमश्रुकणविस्तरः ।तां च दृष्ट्वा तथाविधामन्तरुपजातगुरुविषादो मनस्यकरवम् - 'अहो पूर्वजन्मान्तरसंचितैरशुमकर्ममिरायोजिताः सुनिपुणमपि निरूपितोपा-