पृष्ठम्:तिलकमञ्जरी.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ काव्यमाला।

दन्तच्छेदच्छविमनुवदत्यच्छता गण्डभित्ते-
श्चान्द्रं बिम्ब द्युतिविलसितैर्दूषयत्यास्यलक्ष्मीः ।।

अस्या नेत्रयुगेन नीरजदलस्रग्दामदैर्घ्यद्रुहा
चञ्चत्पार्वणचन्द्रमण्डलरुचा वक्रारविन्देन च ।
स्वामालोक्य दृशं रुचं च विजितां तुल्यं त्रपाबाधितै-
र्बद्धा निर्जनसंचरेषु कमलैर्मन्ये वनेषु स्थितिः ।।

अथासौ मुनिकन्यका समाप्तमन्त्रजपविधिरुत्थाय कृतदेवताप्रणामा गृहीतपुष्पपटलिकया पृष्ठतः परिचारिकयानुगम्यमाना हसितमदमत्तहंसगतिभिर्निर्गत्य मन्थरैः पदन्यासरायतनपर्यन्तवर्तिषु प्रासादकेषु प्रतिष्ठिताजिनप्रतिमाः क्रमेणापूपुजत् । कृतप्रदक्षिणा मूलायतनस्य समुपेत्य पुरतो मे बमूव । दृष्ट्वा च सुचिरमुपरतनिमेषावेशमाकृतिविशेषं च रचितकरसंपुटाखागतशब्दपूर्वमभ्यधित--'महाभाग, भाग्यैर्मादृशामिहानीतोऽसि । उत्तिष्ठ । सर्वदा सुखोचितामपि देहि कतिचित्पदानि गमनखेदस्य तनुम् । अनुगृहाण दर्शनेन वनवासिनोऽस्य जनस्य वसतिम् । इत्यभिहितोऽहं तया ससंभ्रममवतीर्य मत्तवारणात्प्रणम्य बद्धाञ्जलिः 'यथादिशसि' इत्युदीर्य तन्मार्गमनुसरन्यत्रागतेन त्वया गन्धर्वको दृष्टस्तमेव त्रिभूमिकं मठमागच्छम् । प्रथममारूढे च मयि सा तापसकन्यका समारुह्य नागदन्तावलम्बितनिबिडवल्कलास्तरणायां भित्तिमूलघटितोत्तानगण्डोपधानपट्टायामचिरप्रमृष्टकुट्टिमशुचौ शयनशालायामकस्थापिताक्षमाला निर्गत्य धौतकरचरणयुगलां कमण्डलुजलेन सकलामपि ममार्घादिकामतिथिपूजामकरोत् । स्वहस्तोपनीतरुचिरपट्टासनया च तया पुरः सविनयमुपविष्टया विलम्ब्य क्षणं पृष्टः सकलमपि संक्षिप्य निजवृत्तान्तमावेदयम् । द्विगुणमुपजातपक्षपाता च सा तदाकर्णनेन तत्काल-