पृष्ठम्:तिलकमञ्जरी.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २५३ महापातकसमूहेनेवात्यन्तमन्तरानुतप्यमानस्य, संतापवेदनाविनोदाय विहितैर्वारंवारमसमञ्जसैर्गात्रपरिवर्तनैय॑स्तशयनीयस्य, निदाघमध्यंदिनानिलस्पर्धिमिरनारतं वद्भिरायतोष्णैः श्वासमारुतैर्मर्मरीकृतलतापल्लवस्य, लब्धतदीयगात्रसङ्गं वाममङ्गमनङ्गजनितस्वेदसलिलेन दोष्णा दक्षिणेनार्धमुकुलितेक्षणस्य शंभोरिवार्धनारीश्वरस्य, प्रतिक्षणं परिष्वज्यमानस्य प्राणमुपसर्पता तर्पितप्राणेन रक्ताशोकसङ्गिनः, तदङ्गरागस्य परिमलशेषेण रक्षितोकामतजीवितस्याश्रुततदीयजल्पं श्रवणयुगमसकल्पं कलयतः; निमीलितेक्षणस्य तां सर्वतो दिक्षु पश्यतः, चक्रवाकस्येवैकाकिनः सरस्तीरे निषण्णस्य, कुमुदखण्डस्येव कणद्भिरलिकुलैराकुलीकृतम्य, इन्दुना शमितनिद्रस्य मम दर्शनादुदीर्णदुःसहोद्वेगेव दूरानतविपाण्डुशशिमण्डलानना क्षयमगाद्रजनी । अथारुणकरपरामृष्टेषु प्रकटयितुमिव मे विषादान्धस्य भुवनाभोगमुज्झत्सु दिग्द्वाराणि शर्वरीतिमिरेषु जलतुषारसारवाहिषु विहन्तुमिव मद्विरहदाहहव्यवाहव्यथां वहत्सु मन्थरप्रभातपवनेषु श्वासशेषावशेषजीवितजीवितमाश्वासयितुमिव मामितस्ततः प्रचलयन्तीषु पल्लवतालवृन्तानि प्रान्तवनलतासु संध्यातपानुरञ्जितपत्रेषु सर्वरात्रजागरणजिलारुणाक्षमनुकर्तुमिव मामीपन्निमिषत्नु नीलोत्पलयनेषु अवनितलनिषण्णनिःसहावस्थितेरुत्थापनाय हस्तावलम्बमिव मे दातुमन्तलताभवनमन्तरालैरवतरल्सु भास्करकरेषु निराकृतमदीयधैर्योत्कर्षितेन मकरकेतुना समुत्तम्भितासु जयपताकाखिव वियति विततायमानासु सरःशायिसारसक्रौञ्चकलहंसमालासु जाते स्पष्टभासि प्रभातसमये भूयोऽपि तामप्रगल्भमृगशवलोचनामन्वेष्टुमनुसृततदीयपदपविरुदचलम् ।