पृष्ठम्:तिलकमञ्जरी.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ काव्यमाला। तदुदन्तश्च किंचित्सावशेषेऽहनि हृतस्तदनुरागेण पुनरपि तमेव पूर्वदृष्टमिष्टज्ञातिगृहमिव निवासहेतोरेलालतामण्डपमुपागमम् ।  दृष्ट्वा च तं नष्टसकलपूर्वशोभं निशामुखमिवास्तमितशशिलेखम् , उदधिजलमियोद्धृतसुधम् , सौधशिखरमिवापनीतपताकम् , कमलखण्डमिवोड्डीनहंसमालम् , इन्दुवदनया तया विरहितमुपारूढगुरुविषादः स्थितो द्वारदेशे तथैव तां पुरोऽवस्थितां प्रत्यक्षमिवेक्ष्यमाणश्चेतसा सुचिरम् । उत्थाय गत्वा सरसि चिरपरिभ्रमणखेदायासिततलं प्रक्षाल्य चरणयुगलं कृत्वा च किंचिद्देवतास्मरणमभिनवोद्धृतानास्वाद्य कतिचिदपनीतपङ्कोपलेपनिर्मलान्मृणालिनीकन्दानापीय च कराङ्गुलीविवरविगलदिन्दुदीधितिधवलधारं सुधारसखादु खेच्छया सलिलमात्तकोमलतमालकिसलयस्तस्य प्रियाङ्गलतापरिप्वङ्गसुभगस्य दिव्याङ्गरागपरिमलस्तोकवाहिनो रक्ताशोकविटपकस्य निकटे शयनमरचयम् । तत्र च प्रथमदर्शनेऽपि सेयं चक्रसेनतनयेति यत्ननिर्णीता, व्रीडया साध्वसेन वा नेयमुत्तरं प्रयच्छतीति मन्यमानेन यन्न वारंवारमाभाषिता, विहाय रक्ताशोकविटपकं निकटदेशे कृतस्थिरावस्थाना यन्न करतलेनावलम्धिता, मुहुर्मुहुर्मुखावलोकनेन याचमाना निर्गमनवर्त्म यद्वारदेशादीषदपसृते नानुवर्तिता, स्पर्शशकाविवर्तिताफलता विनिर्यती बहिर्यत्प्रसारितोभयभुजेन गाढं न परिरब्धा, लब्धसुरभिश्वासपरिमलेन सविधमागतेऽपि बदनस्य परिणतबिम्बपाटले च रमणौ यन्न परिचुम्बिता, गत्वा किंचिदन्तरं विवर्तितमुखी मुहुर्मुहुलताजालकान्तरेण स्थित्वा स्थित्वा तिर्यगवलोकयन्ती निर्भरानुरागापि भीतेति यत्संभाविता मुग्धता, निराकृतोचितक्रियाप्रवृत्तिश्च निरनुरोधेति जातावज्ञेन यद्रजन्ती पृष्ठतो नानुसता, तेनानेकजन्मान्तरसहस्रनिवर्तितेन