पृष्ठम्:तिलकमञ्जरी.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० काव्यमान। सकंधरा त्रपातरलितमितरेतरतारकाममरनिम्नगातरमतरलायितायामनिर्गच्छदप्रभावच्छादितदिगन्तरां सुधारसच्छटामिव सकालकूटामक्षिपन्मे चक्षुषि मुहुर्मुहुर्मोहाह्लादकारिणी कटाक्षवृष्टिम् । ततो लक्षिताभिप्रायेण निर्गन्तुमाकाङ्क्षतीयमिति विचिन्त्य स्तोकमपसूतेन मया द्वारि दत्ताककाशा प्रयत्नकृतविवर्तनापि किंचिनिजैरकावयवैः स्पृशन्ती स्पर्शलोमेनैव समकालोल्लसितसान्द्रपुलकजालकं मदीयाङ्गवामतागमसदमुखदासामोदं च दलितेन खाभावसुरभिगोश्वासपरिमलेन पवनललितेन च दिव्यारागसौरभेण समन्ततो वासयन्ती ते वनोद्देशं निर्गता तस्माल्लतामण्डपाद्गता च स्खलितपदसंचारया गत्या प्रावृण्वन्ती वारंवारमुत्तरीयाश्चलेन खेदनिबिडाशक्तसूक्ष्मसुकुमाराम्बरं नितम्बम् । अहमपि तरुस्तम्मान्तरेण तां व्रजन्ती विरतपक्षास्पन्देन चक्षुषा सरागमीक्षमाणसत्रैव देशे क्षणमभीष्टं शंसदुद्विमश्चेति चेतस्यकरवम्-'अहो लोकव्यवहारानभिज्ञत्वमस्याः कन्यकायाः, येन द्वारदेशकृतोपसर्पणस्य पुनः पुनः प्रयुक्तप्रियालापस्य दूरदेशागमनखिन्नवपुषः स्वयमाख्यातनिजवृत्तान्तस्य द्रव्यादावदर्शितार्थिभावस्य वचनमात्रेणापि मे न कृता प्रतिपत्तिः । तत्किमनया । अन्यतो गच्छामि' इति चिन्तयित्वा ततः स्थानात्स्वदेशदिमुखाभिमुखस्तस्यैव सरसः सरसशिशिरच्छायतरुणा तीरदेशेन शनैः शनैरचलम् ।  प्रस्थितस्य च मे चेतस्यभवत्-'अहो, यत्तत्तदानीमुपवनस्थेन मया तत्र वेत्रधारिनिवेदिते दिव्यचित्रपटे प्रकाशितमदृष्टपाराख्यं सरो दृष्टमासीत् , तदेवैतत्तयामि । यतस्तत्र ये यथादर्शितास्ते तथैवात्र तिलकतालीतमालबकुलाशोकलकुचलवनचन्दनादयः पादपा दृश्यन्ते । यानि च यदाकाराणि यद्वर्णानि यत्कर्माणि तस पर्यन्तेषु विनि-