पृष्ठम्:तिलकमञ्जरी.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ काव्यमाला। पमिव पल्लवितमश्चकान्तिहरितं हरिदश्वरथपताकानिकुरम्बमिव प्रतिबिम्बितमम्बरमन्दाकिनीजम्बालकूटमिव वीचिविघटनप्रष्टमसमयध्वातसंघातमिव नभसः शर्वर्या सह विरतविरहविनोदनाय गतमनिलसङ्गतरलाभिरुष्णसमयमवजित्यावर्जिताभिर्वैजयन्तीविततिभिरिव प्रान्तपातितपनपादच्छेदनवाञ्छया व्यापारिताभिः परश्वधपरम्पराभिरिव पत्रराजिभिरव्यज्यमानविवरामिविराजितमविरतारब्धवारिच्छयसेककिंकरपुरुषमध्यपतितेन शतपत्रकोशरजःकषायमुदकशीकरनिकरमादाय पुनरुक्तमापतता पर्यन्तसरसीसमीरणेन कौतुकादिव चतुर्दिशमुपसिच्यमानमुपरचितसिन्दूरकुट्टिमकमनीयाभ्यन्तरमन्तःप्ररूढस्य किंचिदारूढपौढेरुदाढसौकुमार्यावलीढसुदृढमूलस्य मूलभागकल्पितेनानल्पीयसा कार्तस्वरशिलापीठबन्धेन महाईसिंहासनेनेव यथार्थीकृतसकलवनस्पत्याधिपत्यस्य प्रवालभङ्गमुग्धस्निग्धपल्लवालंकृतस्य मरकतहरितहारिपत्रनिवहनिवारितदिनेशदीधितिप्रवेशविशदच्छायस्य विसारिसौरभाहृतामिरपहायोपवनपादपानुपसर्पन्तीभिर्मदान्धमधुपधोरणीभिरहमहमिकयेव विलुप्यमानमञ्जरीजालकस्य मुनिजनमनःस्खलितमार्गणप्रसरामर्षितेन कुसुमधनुषासकृत्सायकीकृतकुसुमस्य दक्षिणश्रचसि गृहीतसविशेषभूषणया स्मरप्रणयिन्या शतशोऽवतंसितागं किसलयस्य दिङ्मुखविसर्पणक्षीणपरिमलेन मलयमरुता सततमापीतपरिमलस्य परिमण्डलतयातिमनोहरस्य नातिमहतः पारिजातकतरोनिरन्तरामिरविरलतबकतारखर्वितशिखाभिः शाखाततिभिः समन्ततः स्थगितमुभयतः कृतो;पस्थानः पृथुतरोरुस्तम्भशोभिभिः शरनभःसन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः कदलीद्रुमैरिवापरैरुपरचितपतिभिः पुरुषैः पुरोदर्शितदीघरथ्यामुखमनिरकुटिमोपविष्टनिभृतभूपाललोकमेकदेशारब्धमधुरगान-