पृष्ठम्:तिलकमञ्जरी.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला निर्गत्य च मठात्प्रत्यङ्मुखं प्रचलितः क्रमेण तेषां प्रागुपवर्णितानामादिदेवायतनपर्यन्तवर्तिनां स्फाटिकप्रासादानामन्तःप्रतिष्ठिताः काश्चित्पुष्परागनिर्मिताः प्रसृतबहलोद्द्योततबद्धपरिवेषमण्डलतया समवसतिसालमध्यवर्तिनीरिव विराजमानाः, काश्चित्पद्मरागमयीमहानील- काश्चित्पद्मरागमयीमहानीलसिंहासनोल्लसितकान्तिसंततिसगत्या परितलिनकालमेघपटलान्तरितविग्रहं ग्रहग्रामण्यमिव विगृह्णतीः, काश्चिञ्चन्द्रिकान्तनिर्वृताः सर्वपथीनदीप्तिपटलाप्लावितभद्रपीठतया क्षीरोदसलिलक्षाल्यमानमेरुपृष्ठं जन्माभिषेकलीलामिव दर्शयन्तीः, काश्चिन्मरकतप्रभाप्रवाहहरितायमानकान्तिनिर्भरतया सेवालितलावण्यजलानीवाङ्गानि दधतीः, काश्चिदिन्द्रनीलप्रकृतीरुपान्तज्वलन्मणिपदीपप्रतिबिम्बकरम्बितावयवतया निश्चलोल्काकलापदन्तुरमुत्पातान्तरिक्षमिवाक्षिपन्तीः, रूपान्तरनिरीक्षणप्रवर्धमानाक्षेपतया मन्दीभूतहरिवाहनदिदृक्षारसक्षरदमन्दानन्दबाप्पवृष्टिललाटघटिताञ्जलिपुटा गौरवाकृष्टेनेव सुदूरमवनमता मुहुर्मुहुरुत्तमाङ्गेन वन्दमानो जिनानामजितादीनामप्रतिमशोभाः प्रतिमाः प्रदक्षिणीकृतमूलायतनस्तत्कालम् 'इत इतो गम्यताम्' इत्यभिधाय पुरःस्थितेन स्कन्धदेशारोपितकृपाणयष्टिना गन्धर्वकेणोपदिश्यमानसरणिरुत्तरया प्रकारपतोलिकया निर्जगाम ।  गत्वा च किंचिदन्तरमुत्तरदिग्विभागेनोद्यानस्य दूरादेव रदनविघट्टनजन्मनातिमुखरेण खरखलीनखणखणारवेणानुमीयमानमाननस्रस्तपा- ण्डरफेनपिण्डस्तबकतारकितमूतलमालोलकर्णचामरशिखाहतिविषमविकूणितेक्षणं पर्याणबद्धपर्यन्तोगतदरावच्छुप्कश्यानफेनराजिन्यज्यमानदूरागमनखेदमितस्ततः शब्दानुसारसंभ्रमवलमानस्तब्धकर्णशुक्तियुगलमनवरतचरणाप्रवल्गुनायासितवल्गावलमप्रेष्यपुरुषपरुषहुंकारयुनरुक्तोन्नमन्निर्मासमुखनालमापूरितवनान्तरालतरुतलमतुलमश्चवृन्दमद्राक्षीत् । ।