पृष्ठम्:तिलकमञ्जरी.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२१ काव्यमाला जगतीमध्य एव जगाम । गत्वा च संपिण्डितसुरचापपरमाणुनिवहमनोहराकारमनेकं वर्णतया, क्वचिद्वधूलोचनयुगमिव कृष्णतारोचितम्, क्वचिद्विन्ध्याचलमिव धवलताक्रान्तम् , क्वचिस्सुग्रीवमिव कपिशतान्वि- तम्, क्वचिदशास्यमिव नीललोहितप्रभावाप्तश्रियम्, विजयाशैलमिव मालिकात्रयमनोहरम् , पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम्, विपिनमिव कपोतपालीकलितमुल्लसितकोमलार्करोचिषं शिशिरमुद्दामकुसुमप्रकरशोभनं सुरभिमासन्ननभसं शुचिमशेषमणिशिलाविशेषकृतनिर्माणमुदन्मुखद्वारमङ्गभारभङ्गुरितकमठराजपृष्ठमलधिष्ठमभिनवं मठमैक्षिष्ट    प्रविष्टमात्र एवात्र पुरतो दत्तदृष्टिरुत्कृष्टवसनधारिणमुदारदिव्याभरणभूषिताङ्गमङ्गरापरिमलामोदितदिगन्तमवतीर्य मणिशिलासोपानमालया शिखरशालायास्तत्क्षणमेव द्वाराभिमुखपरिवर्तिताननमवतरणकम्पादीषदवस्रस्तकुसुमस्रजः शिरसिजकलापस्य तिर्यङुन्नमितेन वामपाणिना शनैः शनैरारब्धसंवरणमानन्दनिर्भरतया हृदयस्य ताम्बूलगर्भतया च गण्डद्वयस्य किंचिदविशदोच्चारितपदं प्रत्यङ्गमर्पितेन चक्षुषा प्रसादलब्धामिवावलोक्य वारंवारमनुपमामात्मनो वेषलक्ष्मीमुपजातविस्मयमिमां द्विपटिकां पठन्तमतिसगर्वं गन्धर्वकमपश्यत् । आकल्पान्तमर्थिकल्पद्रुम चन्द्रमरीचिसमरुचिप्रचुर यशोंशुभारतविश्वंभर भरतान्वयशिरोमणे जनवन्द्यानवविद्याधर विद्याधरमनस्विनीमानसहरिणहरण हरिवाहन, वह धीरोचितां धुरम् । दृष्टमात्र एव च तत्र संजातपरमोच्छ्वासः प्रथमपाथोदाभिदृष्ट इव मरुस्थलाभोगः पार्वणेन्दुचन्द्रिकापरिप्लावित इव प्रीष्मकुमुदाकरः परां निर्वृतिमवाप ।  मन्यमानश्च तत्र क्षणे साक्षादेव संपनमात्मनः सुहृदा सह समागममानन्दजलपरिप्लुतेणो विक्षिपन्विरलविरलानि पदानि तदाभि-