पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्ट्वा यात्रानिरूढिं प्रणतिमुपगतः श्रीगुरोरग्रतश्च
प्रोक्तं तेनास्मि तीर्णो निरयगणभयं सत्प्रभावाद् गुरूणाम् ।
नित्यं तत्सेवनादौ नियतमुपसृतः पापहीनः कृतार्थो
योगक्षेमश्च तेषां स्वयमिव भवति प्रार्थना चिन्तयो नः ॥१२॥

अष्टासनस्थहरिकृष्ण उदारवुद्धिः
सर्वस्य सेवकजनस्य कृतार्थकारी ।
हिन्दुस्थलाधिपतिनाधिकृतो हि मन्त्री
पृष्टोऽधुनास्य हरिरायवरस्य लोके ॥ १३ ॥

कुत्र स्थितिः स मृत इत्यवदत् स मन्त्री
तस्याज्ञयाधिकृत एव स सप्तवर्षः।
राज्ये स्थितश्च हरिकृष्ण इति प्रथावान्
सत्याधिपः सकललोकजनप्रसिद्धः॥ १४ ॥

 ॥ युग्मम् ॥

प्रोवाच मन्त्रिणमहं स्वयमेव गत्वा
पश्यामि शक्तिमपि तस्य जनप्रसिद्धाम् ।
क्षात्रेण मन्त्रिप्रवरेण स ईश उक्तो
गवाहमानय इहैव विलोकयस्व ॥ १५ ॥

श्रीमान् स मन्त्री रथघोटकोष्ट्रान्
संगृह्य सेनासमुदाययुक्तः।
गत्वा गृहं तस्य ननाम वार्तां
तां श्रावयामास रहस्यथोच्चैः ॥१६॥

इति श्रीकृष्णकौरामिश्रविरचिते श्रयङ्के
हरिगोविन्दहरिरायहरिकृष्णगुणगणमाहात्म्यकथनं नाम

द्वादशः सर्गः समातः ॥ १२॥