पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३० )

वस्त्रं स्वीयमपि स्वतो धवलितं ज्ञात्वा ननामैव त-
मित्थं शेमुपिकां ममातिधवलां कुर्वन् रराजैव यः ॥ १२ ॥
 
एकस्मिन् समये भ्रमन् वनमतश्चोदासिरूपं दधन्
मर्दानेन युतोग्ररागचतुरेणैकान्तशीलोऽभवत् ।
तत्रानन्तसहस्रेसेवकजनैः पूजायुतैर्वेष्टित
उद्विग्नोऽपि फलान्नभक्तदधिकरभ्यागतान् पालयन् ॥ १३ ॥

उद्याने बहुधान्यराशिरहिते पीडायुतान् मानवान्
दृष्ट्वा तानवदत् प्रकम्पयत भो बब्बूलमेतं तरुम् ।
आरुह्येनमिहैव भक्तदधिगव्यान्नादिकं लभ्यतां
तैनॊरीकृतमित्थमित्यगणयन् मामब्रवीद् गृह्यताम् ।। १४ ॥

श्रुत्वेत्थं वचनं बबूलतरुमारुह्य स्वयं लब्धवान्
सर्वं यत् कथितं स्वयं च गुरुणा तेनातितृप्तः सुखी ।
जातोऽहं शुभबुद्धिरागतपरज्ञानो न सेवेत तं
को जिज्ञासुरिहव यत्नरहितः सर्वं लभेत् पौरुषम् ॥ १५ ॥

चाण्डालो हरिकीर्तनैकरसिकः सर्वाधिकः कीर्त्यते
श्रद्धाहोमतपः समाधिजपतो यच्चित्तगर्वोऽसताम् ।
मानेर्ष्यादि विहाय कीर्तनकरस्तस्माद्धृदि श्रीहरि
सम्प्रामोति परत्र चेह सुखभाक् शुद्धः सदानन्दभाक् ॥१६॥

इति श्रीकृष्णकौरमिश्रविरचिते घड़े काव्ये
बाबानानकाङ्गदयोर्गुणगणमाहात्म्यकथनं नाम

सर्गो दशमः समाप्तः ॥१०॥