पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २० )

आपूर्वं पश्चिमान्तं हिमपटलधरद्विन्ध्यमध्ये यशोधा
वाजिप्रेमा वदान्यो वितरणनिरतो धान्यवासो मणीनाम् ॥६॥

द्वात्रिंशद्वर्षमासैकदशमितनृपत्वं चकारैकलीलः
क्षत्रज्ञातौ विवाहत्रयमितगृहधर्मा चतुःसूनुशाली ।
सुन्दर्य्या देविकायामजितमृगपतिं पूर्वमुत्पाद्य सूनुं
जीतोजीअङ्गनायां त्रयसुतमुपवीतादियुक्तं चकार ॥७॥

स्नुवय्या झुझारो मृगपतिसहितस्तज्जुरावसिंह-
स्तुर्यः सिंहः फतेपूर्व इति जगति चै विश्रुतं यस्य नाम ।
तान् पुत्रान् वन्दनीयानभव (ज?) त सुखदान ये न संसारसौख्य
प्राप्तो गोविन्दसिंहो रिपुमिषवशतस्तद्विनष्टिं च सेहे ॥८॥

दुष्टम्लेच्छैर्विषण्णः प्रतिकृतिकृतयेऽनेकमन्युर्वभूव
क्रोधाग्नेर्विस्फुलिङ्गैः प्रतिदिशपतितैः सर्ववर्णे समुत्थैः ।
जातः श्रीखालसाख्यः खयामिव बहुधा शक्तिसम्पन्नचेष्टः
शुम्भादीन् हन्तुकामा प्रकटयति यथा कौशिकीकालिकाख्या ॥९ ॥

तच्छत्रुक्रन्दनादौ निपुणतरमतिः प्रत्यहं वर्धनोत्को
देशान् देशान् लुठन् वै वसु किमपि बलिं तत्प्रजाभ्यः प्रगृह्णन्
रक्षांचक्रे दयालुर्व्यवहृतवणिजः प्रापयन् सौख्ययुक्तान्
ग्रामानित्थं स्वकीयान विरचयितुमनाः क्षत्रविप्राधिमानी ॥१०॥

पाश्चात्येशं जिघांसुः स्वबलपुरुषतां प्रापयन् सिंहराट्सु
तस्थानीकं विलुण्ठंश्चढतहरिजसासिंहकादिष्धनन्ताम् ।
सेनामध्येऽश्ववारानसिशरधनुपोद्धारकान् दर्शयित्वा
तेषां भीत्या पलायां गृहधनमहिला: कुर्वतां लुण्ठति स ॥११॥

इन्द्रप्रस्थं यियासुर्लघुतरपृतनः प्रेरयामास सिंहान्
जस्सासिंह खुशालं जयहरिचढतासिंहतारामृगेन्द्रम् ।