पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१६)

षष्ठः सर्गः।

श्रीनानकाद्यर्जुनान्तानांराज्यादिव्यवहारनिरूपणम्

जातो भोजनराधिपोऽस्ति सुमहान् रायादिकस्तत्पुरं
चातुर्वर्ण्यहितास्पदं च तिलवण्डीनामकं राजते ।
तद्वासी धनधान्यवान् भुजजनिर्वेदी प्रतिष्ठां गतः
कालूनामधरस्तु यस्य सुभगः सूनुः शुभो नानकः ॥१॥

राजर्षेरवतारतामुपगतः पृथ्वीमहामङ्गलो
योगीवाष्टविभूतिमान् प्रकटताहीनः परोक्षप्रियः ।
यः शिष्ये फणिवारितातपकरश्छायानिरोधी तरो-
र्लोकज्ञातमहाविभूतिरपि तत्पित्रा न वै सम्मतः ॥ २ ॥

वाणिज्ये च नियोजितो वसुकरे दत्वोपदिष्टः स्वयं
पित्रैतद्धनमर्जितं शुभकृतो योज्यं त्वया बुद्धितः ।
श्रुत्वैतद्वचनं प्रदृश्य च सतां तन्मण्डलं दत्तवान्
क्रीत्वा धान्यघृतान्नचूर्णममलं कृत्ये शुभे युक्तवान् ॥ ३ ॥

पित्रोक्तः पशुपो भव स्वमहिपीरसञ्चारयन्नाशय-
स्तत्क्षेत्रान्नकणं प्रदर्श्य च पुनः सम्पूरितं पूर्ववत् ।
आश्चर्यं जनयन् स वासकजनं पित्रे पुनः प्रोदितः
सवैराश्रमवासिभिस्तव सुतो योगी महायुद्धिमान् ॥ ४ ॥

पित्रा व्यूढ इतो गृहाश्रममतः पुत्रद्वयं लब्धवान्
श्रीचन्द्रः प्रथमो गुणैरनवमः श्रीमाञ्छशीबाईभाक।
लक्ष्मीदास इति द्वितीय उपमाहीनः सुतोऽभून्महान्
वैराग्यं परमं गर्ती जगति सन्मिथ्याविवेकान्विती ।। ५ ॥

आयुर्वपमिति द्विसप्त रचितं मासेषु सप्ताहकं
कृत्वा राज्यमसण्डितं भुवि जनानुद्वारयन् स्वाश्रयान् ।