पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १० )

ते लोके कीर्तिमन्तो धननिकरयुताः प्राप्तमाहात्म्ययोगा
दातृख्यात्येकनिष्ठा इह परभवने प्रापितानन्दयूगाः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रकृते श्रय काव्ये वसन्तऋतुहोलिकावर्णनं नाम

सर्गस्तृतीयः समाप्तः ॥ ३॥

चतुर्थः सर्गः।
ग्रीष्मादिऋतुषट्कवर्णनम् ।

गीष्मर्त्तौ तापतप्ता अमृतसरसिगाः खेलयन्तो जलौघैः
तापान् सम्मार्जयन्तो व्यजनकुसुमवातैः सुशीतैबहिष्ठाः ।
तक्रैर्दुग्धैः सिताक्तैः सवनमुपगतैः सेवितैः शान्तचित्ता
धन्यास्ते सम्पदाढ्याः समरिचविजयासेवनाद्यैः प्रसन्नाः॥१॥

ज्येष्ठे घट्यम्बुदानैर्ऋतविधिविहितैः शर्करापानसक्ताः
देवान् पित्रादियुक्ताँस्तनुहिमजलैस्तर्पयन्तः सुतृप्ताः ।
एकादश्यां फलादीन् मधुररसयुतान् भक्षयन्तः प्रदाय
द्वादश्यां विप्रसाधून् मधुरघृतपयोभोजिनः कुर्वते च ॥२॥

आषाढे शरदालये वसनतो धर्मातपो वार्यते
नित्यं व्याकुलतामुपैति हृदयं पुंसां विना येन वै ।
तद्दुःखं भजनानुरागवशगैः किञ्चिन्न विज्ञायते
वाचा कीर्तनकारकैः करयुगैः सत्पादसेवादरैः ॥ ३ ॥

वर्षर्त्तौ घनगर्जनं निपतनं वृष्टेमहामङ्गलं
मार्गाणां परिरोधनं सुबहुशो निम्नोन्नतत्त्वापहम् ।
एकत्रीकरणं सतां बहुतिथं तत्सत्रिणां सत्रदं
विद्युद्रोहितकार्मुकादिकरकः सम्पादने जायते ॥ ४ ॥