पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४७ )


नामान्योतानि पद्मिश्रुतिरिति कथयन्द्वादशेत्थं प्रयाणे
विद्यारम्भे विवाहे सकलशुभविधौ मङ्गलं प्राप्नुवीत ॥ १३ ॥

आदौ श्रीनानकाख्यो रचितदशवपुलॊकमुद्धर्तुकामः
पश्चाच्छीखालसोऽयं जनजनहृदये सम्प्रवृत्तो हठेन ।
भूमौ स्वीयान् सुभक्तान् धनभवनमहाराज्ययुक्तान् प्रकुर्वन्
वैशेष्यात् सौधयुक्ते सरसि विलसति ध्वंसयन् विघ्नपूगान् ॥१४॥

आपातश्चानिशीथं भजनपठनक रागमार्ग वितन्व-
स्तुम्बीवीणामृदङ्गध्वनिविलयततं बुद्धिमत्सजनेषु ।
श्रोतृश्रोत्रप्रवाहेऽमृतरसवितति चारयन् भाति लोके
सोऽयं कल्याणकारी जनहितकरणं साधु भूयात् पृथिव्याम् ॥१५॥

शन्नो मित्रोर्यमा शं भवतु च वरुणःशं न इन्द्रो गुरुः शं
विष्णुः शं नस्विपाद्भिस्त्रिभुवनमुरुधा क्रान्तवान् सं विधाता ।
नीचैरूवं च वामे शमु भवतु बहिर्दक्षिणेऽन्तःशरीरे
देवी बाला भवानी शमवहितगतिः श्रीकरा साधकानाम् ॥१६॥

इति श्रीमिश्रकृष्णकौरविरचिते श्रयङ्के महाकाव्ये
श्रीबाबानानकवर्णनपुरःसरं मङ्गलप्रार्थन
नाम शोडशः सर्गः समाप्तः ॥ १६ ॥

॥ शुभमस्तु ॥

अष्टेष्वष्टैकवर्षे भृगुशिवसहिते ज्येष्ठ शुक्ले निशायां
ग्रन्थः श्रीयुक्त एष प्रथितगुणगणो लिख्यते पूरयित्वा ।
कौरेण ब्राह्मणेन त्रिपुरजननिपादान एवोपनीतः
पूजावल्यर्थमाला त्वभिमतफलदो मङ्गलश्रीविधाता ॥ १ ॥