पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आक्रान्तेष्वपि तेषु केषुचिदतिक्रूरक्रियैः श्वापदै-
र्गृह्यन्ते कतिचिद्यतः शमघनैर्ब्रह्मर्षिभिः पावनैः ।। ६४ ॥

निद्रालस्यशरीरसादवमनान्नद्वेषकासज्वर-
श्वासश्चेतिमहिक्किकाप्रभृतयो मासेषु मातुर्ध्रुवाः ।
जातस्तत्क्षणमेव नश्यतु शतं वर्षाणि वा जीवतु
खर्गे वा पितरौ दधातु नरके वा पातयत्वञ्जसा ।। ६५ ।।

निघ्नन्तोऽशनिमिस्तडिद्विलसितैश्चक्षुर्हरन्तो नृणां
धिध्यन्तश्च शिलाशतैः परिचिताः प्रायेण धाराधराः ।
वर्षन्तो निभृताश्चिरं च समये दृष्टाश्च केचिद्धना
यैरव्याजपरोपकारनिरतैर्जात्या यशः स्थापितम् ॥ ६६ ॥

नाक्ष्णोर्गच्छसि गोचरं बहुतिथान्मासान्नमस्ये पुनः
संघीभूय समेत्य वर्षसि निरुच्छ्वासं समन्तादपः ।
कालं कालमनुव्रजन्मितमिता मुञ्चस्यपश्चेत्ततः
कि जीमूत तव प्रणश्यति कियत्प्राणन्त्वतः प्राणिनः ॥ ६७ ॥

भग्नं भित्तिभिरालयर्निपतितं स्रोतोभिराप्लावितं
विध्वस्तं पशुभिश्च संघश इति क्रोशन्ति वृष्टे त्वया ।
त्वय्युद्गृह्णति वारि वारिद जना नश्यन्त्यवश्यं क्षणा-
त्कीर्तिं चिन्तय दुर्लभां न गणय क्षुद्रान्गुणान्मादृशाम् ॥६८॥

उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसै-
स्तत्रत्यानपि हन्त चन्दनतरूंश्छिदन्ति सांयात्रिकाः ।
वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमा-
स्तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥ ६९ ॥

गृह्यन्तां करिणः प्रसह्य विनिहन्यन्तां वराहा वृका
भल्लूकाश्च तरक्षवश्च पथिकाः सन्तु त्वया निर्भयाः ।
आखून्कङ्कखराञ्छशाननिमिषान्कीटान्पतङ्गानपि
ग्राहंग्राहमहो कियत्प्रकटयस्याखेटके पाटवम् ॥ ७० ॥