पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पुष्णातूत्पलबान्धवः प्रतिनिशं मुष्णातु वा वाडवो
नाब्धिः क्षुभ्यति न प्रसीदति ततो न क्षीयते नैधते ॥ ५१ ।।

वापीकूपतडागपल्वसरःस्रोतस्विनीसारणी-
तोयाभ्युद्गमनिर्झरह्रदजलाधारोदपानप्रपाः ।
संपन्ना उपजीव्य यस्य विभवं साक्षात्प्रणाल्योऽपि वा
तस्मै जीवन जीवनाय सरितामीशाय तुभ्यं नमः ॥ ५२ ।।

न ह्युष्णो न च शीतलो जलनिधिर्लब्धप्रतिष्ठोऽपि स-
न्कस्त्वस्याः प्रकृतेरमुं चलयितुं शक्तस्त्रिलोकेष्वपि ।
अद्यापि ज्वलतान्तरेव विहितं किं तावदैर्वाग्निना
सायंसायमुदित्वरेण शशिना तत्रैव वा किं कृतम् ॥ ५३ ।।

राजा विप्रकुलस्य यस्य तनयः सोमः स वारांनिधे-
र्यः सर्वाश्रयणीयपादकमलस्तस्याश्रयोऽयं हरेः ।
आनीतश्चुलुकं स एव चलुकेऽप्यन्तः प्रवेश्येत चे-
त्क: संवेदितुमीहते भगवतः कालस्य लीलायितम् ॥ ५४ ॥

दुग्धं स्वादु रसादपीह मधुनो दग्धं विषैर्वासुके:
संवर्तव्रतसाक्षिणो जलचरा मन्थाद्रिणा मारिताः ।
प्राणेभ्योऽप्यधिकाः सुरद्रुममुखाः प्राप्ताः समस्ता व्ययं
किंचिद्रक्षितुमिच्छतामृतमिह क्षीराब्धिना नाशितम् ॥ ५५ ॥

लब्बा श्रीर्मुरवैरिणा पुरभिदा लब्धः खयं चन्द्रमा
देवैरप्सरसो मणिद्विपहयास्तत्वामिनैवाहृताः ।
एकस्मै स्वयमेकमेव विलरत्येतेषु चेत्सागर-
स्त्रैलोक्यं वशयेज्जडस्तु स वृथा विक्रम्य तैर्लुण्ठितः ।। ५६ ॥

कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः
सुन्दर्यः कति सुभ्रवः कति महारत्नान्यनर्घ्याण्यपि ।
जातैका फिल कन्यका जलनिधेर्दातुं प्रसक्ता यदा
सर्ब्र तव्द्ययितं तदा परिणतौ नामैकभुच्छेषितम् ॥ ५७ ॥