पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
रसरत्नहारः ।

स्त्रीपुंसाविति निर्देशान्नायिका वर्ण्यते पुरा ।
स्वीया च परकीया च सामान्येति त्रिधा स्त्रियः ॥ ८ ॥
स्वकीयात्रोत्तमाचारा पतिमात्रानुरागिणी ।
मुग्धा मध्या प्रगल्भेति त्रिधाङ्कुरितयौवना ॥ ९ ॥

उदाहरणम्-'अन्तरास्यं हास्यमक्ष्णोः सतीनां प्रपदे गतिः । प्रीत्यङ्कुशेन स्वप्नेऽपि रोषवारणवारणम् ॥ 'यत्तु रसमञ्जर्याम्-'गतागतकुतूहलं-' इत्याद्युदाहरणं तत्रापाङ्गप्रेक्षणस्य परकीयाया अपि धर्मत्वाच्चिन्त्यम् ॥

तास्वाद्या सा द्विधाज्ञातयौवना ज्ञातयौवना ।
नवोढा सैव सुरतप्रतिरोधकलज्जया ॥ १० ॥
स्याद्विश्रब्धनवोढा च मनाङ्मन्दाक्षमान्द्यतः ।

आद्या मुग्धा । मुग्धा नववयःकामा रतौ वामामृदुः क्रुधि' इति दशरूपके । सा द्विधा- अज्ञातयौवना ज्ञातयौवना च । आद्योदाहरणम्-'दिने दिने दर्पणमीक्षमाणा कान्तिं मुखेन्दोरुपचीयमानाम् । निरीक्ष्य नेत्राम्बुजयोर्विकासं पप्रच्छ बाला मुकुरेऽभवत्किम् ॥ 'नीरात्तीरमुपागता' इत्यत्र नेत्रस्य स्वतो दर्शनमसंभवि । तथा च सुबन्धुः—'गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥' अतस्तदुदाहरणं चिन्त्यम् । ज्ञातयौवना यथा--'बभूव किंस्वित्तव नो वयस्ये नवे वयस्येवमिति प्रलप्य । नताननेन्दुः क्षणमाजहार दिशः श्रियं पाशधरस्य मुग्धा ।' यत्तु रसमञ्जर्याम्- 'अम्भोजलोचन-' इत्यत्र ज्ञातयौवनत्वज्ञानार्थमर्थान्तरं कल्पयन्ति सा कुकल्पनैव । नवोढा यथा---'पत्या सनाथममलं भवनं निरीक्ष्य बाला शशाक सहसा त्रपया न यातुम् । यातापि नाप शयने शरदभ्रशुभ्रे विद्युल्लतेव कनकाभतनुः स्थिरत्वम् ॥'

ह्रीकामसाम्ये मध्या स्याद्धैर्ये सागसि नायके ॥ ११ ॥
वक्रोक्तिस्तद्वैपरीत्ये भवेत्परुषवाग्रुषा ।

'मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा' इति दशरूपके । 'संप्राप्ततारुण्यकामा इति च दशरूपके ॥

प्रौढा अधिककंदर्पा पत्यावखिलकेलिकृत् ॥ १२ ॥

रतिप्रीतिर्यथा---'वक्रेण वक्रमरविन्दविशालनेत्रा संयोज्य कापि हृदयं हृदयेन शेते । कण्ठं भुजेन दयितस्य तदूरुयुग्ममूरुद्वयेन वचनं वचनैः सहासम् ॥ यत्तु रसमञ्जर्याम्- 'श्रवणयोर्नीलोत्पलं निह्नुते' इति, तच्चिन्त्यम् । भग्नकमलकुमुदयोर्विकासादर्शनात् । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्कके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥' १.'मृषा' क.