पृष्ठम्:देलरामाकथासारः.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
काव्यमाला ।

स चाग्रजोऽगच्छदुदारलक्ष्मीं पश्यन्पुरे तत्र सविस्मयोऽलम् ।
समाससाद क्षितिपालसिंहद्वारं निबद्धामितवारणाश्वम् ॥ १० ॥
सुलक्षणालोकनकौतुकेन पृष्टो जनैरन्वयनामनी सः ।
स्वकीयवृत्तान्तमशेषमेव व्यावर्णयामास नरेन्द्रसूनुः ॥ ११ ॥
निवेदितं तत्र जनैः सहर्षं ततः ससैन्याखिलमन्त्रिमुख्याः ।
पौराश्च बद्धाञ्जलयः समन्तादुपागता राजसुतं प्रणेमुः ॥ १२ ॥
स्वप्नोक्तसल्लक्षणदर्शनेन प्रहृष्टचित्तैः सचिवैस्तदानीम् ।
हिरण्यकुम्भैर्विमलाम्बुपूर्णे राज्येऽभिषिक्तः स रराज राजा ॥ १३ ॥
प्राज्यं स राज्यं समवाप्य नानाभोगोपभोगोत्सुकमानसोऽभूत् ।
कनीयसो भ्रातुरहो कदाचित्सस्मार नो राजसुतस्य तस्य ॥ १४ ॥
अत्रान्तरे स क्षितिपालसूनुर्मो(र्मु)रादभक्षो(बख्शो) दिवसावसाने ।
अदर्शनाद्भातुरहो मसेदासमीपमागत्य शुशोच दुःखात् ॥ १५ ॥
दूराध्वखेदेन बुभुक्षया च भ्रातुर्वियोगेन च पीड्यमानः ।
कथंचिदाहारमसौ तु किंचिच्चकार तत्रापणमध्यमेत्य ॥ १६ ॥
इतस्ततो भ्रातृगवेषणार्थ भ्रमन्प्रभूतव्यसनान्तचेताः ।
स्खलद्गतिर्दूरतराध्वखेदादेकं वरोद्यानमथाविवेश ॥ १७ ॥
व्याकोशपुष्पस्तबकप्रनम्रप्रतानिनीराजिविराजमाने ।
तत्र क्षणं शाखितलोपविष्टस्तुतोष नानाश्रियमीक्षमाणः ॥ १८ ॥
इतस्ततो यावदसौ स्वदृष्टिं क्षिपन्क्षणं शाखितलेऽत्र तस्थौ।
तदन्तिके तावदथारुरोह प्रोत्तुङ्गसौधं वनिता तु काचित् ॥ १९ ॥
विराजितां साञ्जनहारिनेत्रद्वयेन सभृङ्गजितोत्पलेन ।
प्रोत्तुङ्गपीनस्तनयुग्मशोभाहिरण्यकुम्भाहितकान्तिगर्गा(र्भा)म् ॥ २० ॥
आश्यामधम्मिल्लविधुंतुदेन भ्रान्त्या सुसंपूर्णतुषाररश्मेः ।
व्योम्नोऽवतीर्य द्रुतमेव भूमौ रुषेव पश्चात्समुपात्तवक्राम् ॥ २१ ॥
लावण्यपाथोनिधिरत्नवीचिं तारुण्यहेमाद्रिहिरण्यवल्लीम् ।
सुकान्तिगङ्गानलिनी प्रफुल्लां शृङ्गारमद्भूमिरुहालवालाम् ॥ २२ ॥