गच्छञ्जवेन सहसा निजराजधानीं
संप्राप्य वासभवनं निजमाविवेश ॥ ३०॥
आनीय तत्र निकटं किल मेरभक्तां
दूरीकृताखिलजनो विजनं समेत्य ।
तस्याः शशंस नृपतिः स मृगीवचस्त-
त्प्रोद्भिन्नबाष्पजलगद्गदभाषितेन ॥ ३१ ॥
आकर्ण्य तद्गिरमुवाच तु मेरभक्तां
सा तं विमृश्य विपुलोद्गतचित्तपीडा ।
राजन्नुपैति यदि दुर्गतिरद्य शक्ति-
र्देहेऽस्ति किंचिदपि सोढुमुरुप्रयत्नम् ॥ ३२ ॥
प्राप्तेऽथ दारुणतरे परिणामकाले
शान्ताखिलेन्द्रियनितान्तघनावसादे ।
कुर्वः किमेव बत कुत्र तदा प्रजा वः
सर्वे हसन्ति हि यदङ्गुलिदर्शनेन । ३३ ।।
तद्गच्छ तूर्णमित एव मृगीसमीपं
तां ब्रूहि भूमिप पुरो विनयात्प्रणम्य ।
मातस्त्वदीयवचसा तु विपन्ममाद्य
स्फीतव्यथां तु न सहे परिणामकाले ॥ ३४ ॥
इति निजदयिताया वाचिकं तन्निशम्य
रजनिमवनिपालः खावरोधेऽतिवाह्य ।
उषसि तु मृगयाव्याजेन दूरीकृतस्व-
भृतकसचिवसैन्यः काननं तद्विवेश ॥ ३५ ॥
इति राजानकभट्टाह्लादकविरचिते देलरामाकथासारे मृगीदर्शनानन्तरं नृपगमनं नाम
प्रथमः सर्गः।
द्वितीयः सर्गः।
अथ सपदि कुतोऽप्यागत्य दत्तावधानां
स नरपतिरपश्यत्तां मृगीं काननेऽत्र ।