पृष्ठम्:तिलकमञ्जरी.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीधनपालकविः।

अयं हि कविवरः कदा कतमं घरामण्डलं मण्डयामासेवि जिज्ञासायों पर- विषप्रन्यपर्यालोचने प्रवृत्ते- “अस्त्याश्चर्यनिघानमर्बुद इति ख्यातो गिरिः खैचरैः कृच्छ्राल्लङ्कितदिग्विल्ङ्कि शिखरमामोऽप्रिमः क्ष्मामृताम् । मैनाकेन महार्णवे हरतनौ सत्याप्रवेशे कृते येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ॥ वासिष्ठैः स्म कृतस्मयो वरशतैरस्त्यमिकुण्डोद्भवो भूपालः [१]परमार इत्यभिधया ख्यातो महीमण्डले। अद्याप्युद्गतहर्षगदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोज्झतस्य भुजयोर्विस्फूर्जितं गुर्जर्राः ॥ तस्मिन्नभूद्रिपुकलत्रकपोलपत्रवल्पीवितानपरशुः परमारवंशे । [२]श्रीवैरिसिंह इति दुर्धरसैन्यदन्तिदन्ताप्रभिन्नचतुरर्णवकूलमितिः ॥ तत्राभूद्वसतिः श्रियामपरया [३]श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बुराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयक: सायकाः पवेषोरिव यस्य पौरुषगुणाः केषां न लप्ना हदि । तस्पोदप्रयशाः समस्तसुभटपामाग्रगामी सुतः सिंहो दुर्घरशक्रसिन्धुरततेः [४]श्रीसिन्धुपजोऽभवत् । एकाधिज्यचतुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स [५]श्रीमद्वापतिराजदेवनृपतिवीराप्रणीरप्रजः ॥


१. अस्य महाराजलाईदाचलामेयाने वर्तमाना चन्द्रावती नाम राजाधान्या सीत्. २. 'नट' इत्खपि नामान्तरम्. See Epigraphia Indica, Vol. L, P.222-28. ३. 'सिंहदन्त' इत्यपि नामान्तरम्, Vide Prabandha-Chin- timani, P.55. ४. अस्य हि श्रीसिन्धुराजस्य 'सिस्धुल-सिम्बल-कुमारनारायण नवसाहसाङ्क’ इति नामान्तराणि. See Nayasahasasanka Charita and Pmbandha-Chintamani ५. अस महाराजस्य 'नमोषवर्ष-उत्पलराज' इत्यपि नामान्तराणि । Vide Indian Antiquary, Vol... VI, pp.51- 54, and Navasahasankaa-Charita. एतद्राज्यं च . D. 975-1022