महाभारतम्-05-उद्योगपर्व-075

विकिस्रोतः तः
← उद्योगपर्व-074 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-075
वेदव्यासः
उद्योगपर्व-076 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीमेन कृष्णंप्रति स्वसामर्थ्यकथनपूर्वकं स्वस्य शमकामनायाः कृपामूलकत्वकथनम् ।। 1 ।।


वैशंपायन उवाच।

5-75-1x

तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः।
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ।।

5-75-1a
5-75-1b

भीमसेन उवाच।

5-75-2x

अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत।
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ।।

5-75-2a
5-75-2b

वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः।
उत वा मां न जानासि प्लवन्हृद इवाप्लवे ।।

5-75-3a
5-75-3b

तस्मादनभिरुपाभिर्वाग्भिर्मां त्वं समर्च्छसि ।
कथं हि भीमसेनं मां जानन्कश्चन माधव ।।

5-75-4a
5-75-4b

ब्रूयादप्रतिरूपाणि यथा मां वक्तमर्हसि ।
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ।।

5-75-5a
5-75-5b

आत्मनः पौरुषं चैव बलं च न समं परैः ।
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः ।।

5-75-6a
5-75-6b

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ।
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ।।

5-75-7a
5-75-7b

अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ ।
यदीमे सहसा क्रुद्धे समेयातां शिले इव ।।

5-75-8a
5-75-8b

अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे ।
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ।।

5-75-9a
5-75-9b

य एतत्प्राय मुच्येत न तं पश्यामि पुरूषम्।
हिमवांश्च समुद्रश्च वज्री वा बलमित्स्वयम् ।।

5-75-10a
5-75-10b

मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ।
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ।।

5-75-11a
5-75-11b

अधः पादतलेनैतानधिष्ठास्यामि भूतले ।
न हि त्वं नाभिजानासि मम विक्रममच्युत ।।

5-75-12a
5-75-12b

यथा मया विनिर्जित्य राजानो वशगाः कृताः ।
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ।।

5-75-13a
5-75-13b

विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ।
परुषैराक्षिपसि किं व्रणं सूच्येव चानघ ।।

5-75-14a
5-75-14b

यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ।
द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि ।।

5-75-15a
5-75-15b

मया प्रणुन्नान्मातङ्गात्नथिनः सादनस्तथा ।
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ।।

5-75-16a
5-75-16b

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ।
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः ।।

5-75-17a
5-75-17b

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम।
किं तु सौहृदमेवैतत्कृपया मधुसूदन ।
सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् ।।

5-75-18a
5-75-18b
5-75-18c

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-75-1 समाधावत् तीव्रवेगं यथा स्यात्तथा ।। 5-75-3 ह्रदे प्लवन् पारमिवेति शेषः ।। 5-75-14 संबाधे संकीर्णे ।। 5-75-15 वैशसे विशसनवति ।।

उद्योगपर्व-074 पुटाग्रे अल्लिखितम्। उद्योगपर्व-076