पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
वाक्यधृत्तिः ।


॥ वाक्यवृत्तिः ॥

सर्गस्थितिप्रलयहेतुमचिंत्यशक्तिं
 विश्वेश्वर विदितविश्वमनतमूर्तिम् ।।
निर्मुक्तबंधनमपारसुखांबुराशिं
 श्रीवल्लभ विमलबोधघनं नमामि ॥ १ ॥
यस्य प्रसादादहमेव विष्णु-
 र्मय्येव सर्व परिकल्पितं च ॥
इत्थं विजानामि सदात्मरूपं
 तस्यांघ्रिपद्म प्रणतोऽस्मि नित्यम् ॥२॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरु परिपृच्छति ॥ ३ ॥
अनायासेन येनास्मान्मुच्येय भवबंधनात् ।
तन्मे संक्षिप्य भगवन्केवल कृपया वद ॥ ४ ॥
साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते ।
इद तदिति विस्पष्ट सावधानमनाः शृणु ॥ ५ ॥
तत्त्वमस्यादिवाक्योत्थ यज्जीवपरमात्मनोः ।
तादात्म्यविषय ज्ञान तदिद मुक्तिसाधनम् ॥ ६ ॥
को जीवः क' परश्चात्मा तादात्म्य वा कथ तयोः ।।
तत्त्वमस्यादिवाक्य वा कथ तत्प्रतिपादयेत् ॥ ७ ॥
अत्र ब्रूमः समाधान कोऽन्यो जीवस्त्वमेव हि ॥
यस्त्वं पृच्छसि मां कोऽह ब्रह्मैवासि न संशयः ॥ ८॥
पदार्थमेव जानामि नाद्यापि भगवन् स्फुटम् ।।
अह ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथ वद ।। ९ ॥
सत्यमाह भवानत्र विगानं नैव विद्यते ॥