पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
लघुवाक्यवृत्तिः।


लघुवाक्यवृत्तिः।।

स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः ।
ज्ञानकर्मेंद्रियैः सार्धं धीप्राणौ तच्छरीरगौ ॥ १ ॥
अज्ञान कारणं साक्षी बोधस्तेषां विभासकः ।
बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः ॥ २ ॥
स एव संसरेत्कर्मवशाल्लोकद्वये सदा ।
बोधाभासाच्छुद्धबोध विविच्यादतियत्नतः ॥ ३ ॥
जागरस्वमयोरेव बोधाभासविडबना।
सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् ॥ ४॥ .
जागरेऽपि धियस्तूष्णींभावः शुद्धेन भास्यते । ,
धीव्यापाराश्च चिद्भास्याश्चिदाभासेन सयुताः ॥ ५ ॥
वह्नितप्तजलं तापयुक्तं देहस्य तापकम् ।
चिद्भास्या धीस्तदाभासयुक्तान्य भासयेत्तथा ॥ ६ ॥
रूपादौ गुणदोषादिविकल्पा बुद्धिगाः क्रियाः ।
ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता ॥
रूपाच्च गुणदोषाभ्या विविक्ता केवला चितिः ।
सैवानुवर्तते रूपरसादीनां विकल्पने ॥ ८ ॥
क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु ।
मुक्तासु सूत्रवद्बुद्धिविकल्पेषु चितिस्तथा ॥ ९ ॥
मुक्ताभिरावृतं सूत्र मुक्तयोर्मध्य ईक्षते |
तथा वृत्तिविकल्पौश्चित्स्पष्टा मध्ये विकल्पयोः ॥ १०
नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदय ।
निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते ॥ ११ ॥
एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् ।