पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
तत्वोपदेशः।


भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।
अद्वैतं त्रिषु लोकेषु नाद्वैत गुरुणा सह ॥ ८७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीशकरभगवतः कृतौ तत्त्वोपदेशः सपूर्णः ॥


---