पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
चतुर्थः पटलः ।


अग्न्यश्व्युमाः सविघ्ना नागा गुहसवितृमातरो दुर्गा ।
ककुभो धनपतिविष्णुयमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ७१
राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थात् ।
अक्षरभेदविकारात् करणानि च सप्तभेदकान्यभवन् ॥ ७२
सिंहव्याघ्रवराहाः खरगजवृषकुक्कुराः प्रतिपदर्धात् ।
अन्त्यातिथ्यर्धाधं तिष्ठन्त्याकृष्णगोश्चतुर्दश्याः ॥ ७३
एवं सग्रहराशिकदिनतिथिकरणप्रभेदकाः कथिताः ।
अस्मात् पञ्चविभागाद्विज्ञेया पञ्चवर्णनिष्पत्तिः । ७४