पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
चतुर्थः पटलः ।


अस्या विकाराद्वर्णेभ्यो जाता द्वादश राशयः ।
लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ३१
ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः ।
वक्ष्यामि चक्ररूपञ्च प्रबद्धं राशिभिर्यथा ॥ ३२
अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् ।
भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ३३
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते ।
ऋकारान्तैरुकाराद्यैर्वृषो युग्मं ततस्त्रिभिः ॥ ३४
एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः ।
अम:शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥ ३५
षड्भ्यः कचटतेभ्यश्च पयाभ्याञ्च प्रजज्ञिरे ।
वणिगाद्याश्च मीनान्ता राशयः शक्तिजृम्भणात् ॥ ३६
चतुर्भिर्यादिभिः सार्द्धं स्यात् क्षकारस्तु मीनगः ।
स्यातामर्धाधिकौ पञ्चनाड़िकौ चापकर्कटौ ॥ ३७
पादाधिका मकरयुक्सिंहवृश्चिक संज्ञकाः ।
पादोनौ कुम्भवृषभौ वणिक्कन्ये च पञ्चके ॥ ३८


1. तामसि